पृष्ठम्:शब्दापशब्दविवेकः.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वार्थिकास्तद्धिताः २४५


१०. विद्याधनः सोमदत्तो मघवतोऽपि भाग्यवन्तमात्मानमजीगणत् । ११. धर्मे स्मृतयः प्रमाणं वेदास्तु प्रमाणतराः । १२. कुलधर्मो दक्षिणतश्चूडा वासिष्ठानाम् । १०. केचित्स्वार्थिका: प्रत्यया नित्यमिष्यन्ते तमबादयः प्राक् कन इतीष्टिः । तेन भाग्यवत्तरमिति युज्यते । केचिन्महाविभाषया तरपोऽभावं समादधते । ११. अतिशयेन प्रमारणं प्रमाणतराः । स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेपीति वचनात्पुंस्त्वं बहुत्वं चोपपन्नम् । १२. दक्षिणोत्तराभ्यामतसुच् इति साधु । शैषिकाधिकारः षष्ठः १. केचिच्छ्रौता आहुरक्रियार्था मन्त्रा अनर्थकाः । तदपरे न सहन्ते । २. अद्य बहोः कालाच्छीमदीयं दर्शनं लब्धम् । ब्रूहि सर्वमेतं कालं क्वाऽवात्सीः । ३. ब्राह्मी खल्वेषा त्रयी वाङ् न पौरुषी । ४. अद्यतनीयाः पण्डितमानिनः केचन शिष्टजुष्टां वाग्वर्तनीं२ व्यति- क्रामन्ति न च तत्र दोषं पश्यन्ति । १. शेषे ( ४।२।६२) इति लक्षणमधिकारश्च । श्रुतौ विहितं श्रौतमिति भवति । न च पुरुषः श्रौत इति प्रयोगोऽस्ति । २. श्रीमच्छब्दो न वृद्धः । तेन वृद्धाच्छ इति छस्याप्रसङ्गः । तेन वृत्त्यनाश्रयेण श्रीमत इति षष्ठ्यन्तं प्रयोज्यम् । केचिदभिनव- शब्दनिर्मितिरसिकाः श्रैमत्कशब्दं तत्रार्थे प्रयुञ्जते तेऽपि साहसा- द्वारयितव्याः। न हि व्याकरणमभूतप्रादुर्भावनं भवति किन्तर्हि भूतस्य व्युत्पादनम् । ३. पौरुषीत्यपशब्दः । पुरुषाद्वधविकारसमूहतेनकृतेष्विति ढञि पौरुषेयीत्येव शब्दः । अयं ढञ् शैषिको न । ४. सायंचिरंप्राह्णे इत्यादिसूत्रेण ट्युलि तुडागमे च अद्यतना इति सिद्धम् । ततश्छस्याप्रसङ्गादद्यतनीया इति प्रामादिकमेव ।