२४४ शब्दापशब्दविवेके
३. अयं लोहितकः कोपेन । एनं परिहर ।
४. अयं देवदत्तो ब्राह्मणजातिर्न तु क्षत्रियजातिरिति कथं जानीषे ?
५ बहुश्रुतोप्यननुष्ठितशास्त्रार्थो नाऽलन्तरां भवति स्वमुन्नेतुम् ।
६. स्वरतो वर्णतो वा हीनः शब्दो न विवक्षितमर्थमाह ।
७. सहस्रशः समेतानां परिषत्वं न विद्यते (मनु०) ।
८. युधिष्ठिरः श्रेष्ठतमः कुरूणाम् ।
९. अयमृजुर्मार्गः, अयं च रजीयान् । येनेष्टं तेन गम्यताम् ।
३. वर्णे चानित्य इति लोहितशब्दात् स्वार्थे कनि लोहितक इति
साधु ।
४. जात्यन्ताच्छ बन्धुनि (५।४।९) इति स्वार्थिके छप्रत्यये ब्राह्मण-
जातीयः, क्षत्रिय जातीय इति च भवति । ब्राह्मणत्वं जातिरस्येति
ब्राह्मरणजातिः । स एव ब्राह्मरणजातीयः ।
५. किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे इत्यद्रव्यप्रकर्ष आमो विधेरिह
द्रव्यप्रकर्षे तस्याप्रसङ्गात् अलन्तर इति भवितव्यम् । स्वार्थिकाः
प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि इति वचनात्पुंस्त्वम् ।
६. अपादाने चाहीयरुहोरित्यनेन पञ्चम्यास्तसिरिह न प्राप्नोति,
हीयतेः पर्युदासात् । नैषा पञ्चमी । किन्तर्हि तृतीया । स्वरेण
वर्णेन वा हीन इत्यर्थः । सार्वविभक्तिकस्तसिः ।
७. सहस्रं सहस्रं ये समेतास्तेषामित्यर्थः। तेनेह वीप्साऽस्ति कारक-
त्वमपीति संख्यैकवचनाच्च वीप्सायामिति श: ।
८. यदा च प्रकर्षवतां पुनः प्रकर्षो विवक्ष्यते तदातिशायिकान्तादपर
आतिशायनिकः प्रत्ययो भवत्येवेति वृत्तावुक्तम् । तेन श्रेष्ठतम
इति साधु ।
६. र ऋतो हलादेर्लघो: [६।४।१६१) इति रविधौ परिगणनं कृतम् ।
तद्यथा-
पृथुं मृदुं भृशं चैव कृशं च दृढमेव च ।
परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत् ॥ इति ।
रविकल्पस्तु च्छन्दोविषयः, विभाषर्जोश्छन्दसीति । तेन ऋजीयान्
इत्येव साधु ।