पृष्ठम्:शब्दापशब्दविवेकः.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावकमगोस्तद्धिताः २४३ १९. वाणी 'मान्द्यतां मावतीतात् (मोह० ९।२८) । २०. इति मुनिः पुनराप पुरातनीं प्रकृतिमात्तमहाप्रभुवात्सलः (मोह० ७१४१) २१. कच्चिन्न खलु कापेयी सेव्यते चलचित्तता (रा० ६। १२७।२३) । २२. चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः (भा० द्रोण० १४७।६) । १९. ष्यञि मान्द्यम् इति भाववाचि परिनिष्ठितं रूपम् । अपरेण भाववाचकेन तला नार्थः । न हि सर्वत्राधिकस्याधिकं फलं भवति । २०. वात्सलम् इति प्रातिपदिकं नास्ति । वत्सलस्य भावो वात्सल्यं ष्यञि सिद्धम्। २१. कापेयीत्यत्र कपिज्ञात्योर्ढग् (५।१११२७) इति भावे ढग् न । तथा सति कापेयमिति नपुंसकं स्याद् वृत्तिं च न विशिष्यात् । इतश्चा- निञ (४।१।१२२) इत्यपत्ये ढग् ज्ञेय: । कपिसम्बन्धिनी कपौ भवा वृत्तिस्तदपत्यत्वेनोपचर्यते। २२. योपधाद् गुरूपोत्तमाद् वुञ् (५।१।१३२) इत्याचार्यशब्दाद् भाव- कर्मणोर्वुञ् विहितः । इह चाचार्यस्य संमान इत्यर्थः। स च पाणिनेरनभिमतः । दुर्लभः समाधिः । इति तद्धितेषु भावकविवेचनम् । .. स्वाथिकाधिकारः पञ्चमः । १. ओषधिं पिब भिषङ्निर्दिष्टां यथा ते ज्वरोऽपेयात् । २. रमायाः काली शाटी श्यामायाश्च' श्येनीत्युभे सम्पद्यते १ । १. ओषध्यः फलपाकान्ता इत्यमरः । तेन ब्रीह्यादयस्ता भवन्ति । न हि ताः पेया भवन्ति । ओषधेरजातावित्यणि औषधमिति तु प्रयोज्यम् । २. कालाच्च (५।४।३३) इति कालशब्दाद्रक्ते कन् प्रत्ययो भवति । तेन कालिकेत्येव साधु । काली निशा, काली गौरिति तु नित्ये वर्णे रक्तार्थाभावे।१- शोभेते ।