पृष्ठम्:शब्दापशब्दविवेकः.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४. शम्दापशन्दविवेके


भावकर्माधिकारश्च तुर्य: ।

१. यः कौमार्येऽनभिविनीतः स कदा नु विनयं ग्रहीता१ २. स्त्रियाः पत्युऋक्थे दायाद्यत्वमस्तीत्येके, नास्तीति चैके । ३. चौरिकाचोरिकयोः शब्दयोः समानार्थकयोरपि भिद्यते व्युत्पत्तिः । तां चद्वेत्थ शब्दविदसि नूनम् । ४. भावे आचतुर्यमित्यपि साधु, अचातुर्यमित्यपि । तद् उपपाद्यम् । ५. ऐक्यसम्पादनाय सौमनस्यतालाभाय च सर्वैश्चेष्टनीयम् । ६. न त्वमार्यशास्त्राणां विशेषतां वेत्थ यदेवमवादी: ।

१. प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् इत्यत्रि कौमारमित्येव साधु । २. गुरणवचनब्राह्मणादिभ्यः कर्मणि चेति भावकर्मणोरर्थयोः ष्यत्रि दायाद्यम् इत्येव न्याय्यम् । उक्तेऽर्थे प्रत्ययपौनरुक्त्यं न युज्यत इति त्वप्रत्ययेन नार्थः । उक्तार्थानामप्रयोगात् । ३. चोरशब्दो मनोज्ञादिषु पठ्यते । तेन द्वन्द्वमनोज्ञादिभ्यश्चेति वुञि स्त्रियां टापि चौरिकेति रूपम् । धात्वर्थनिर्देशे ण्वुल्वक्तव्य इति चोरयतेणुर्लि टापि चोरिकेति कृदन्तम् । ४. न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटबुधकतरसलसेभ्य इत्यत्र चतुरपर्युदासान्नञ्पूर्वादपि चतुरशब्दाद् गुरणवचनब्राह्मणा- दिभ्यः कर्मणि चेति ष्यञि तद्धितेष्वचामादेरित्यादिवृद्धौ सत्या- माचतुर्यमिति रूपम् । अचतुरस्य भावः कर्म वेत्यर्थः । चतुरश- ब्दात्केवलात्तेनैव सूत्रेण ष्यञि पश्चान्नञ् समासे अचातुर्यमित्यपि भवतीत्युभयं सूपपन्नम् । चतुरस्य भावः कर्म वा चातुर्यम् । तन्न भवत्यचातुर्यम् । ५. सुमनसो भाव: सौमनस्यमिति गुणवचनब्राह्मणादिभ्यः कर्मणि चेति ष्यञि सिद्धम् । तत उक्तार्थानामप्रयोग इति प्रत्ययान्तर- स्याप्रसक्तेः सौमनस्यतेप्यपशब्दः । ६. विशेष इति भावे घञि रूपम् । घञबन्तः पुंसीति नियमादयं पुमान् । उक्तो भाव इति भावे प्रत्ययान्तरस्य प्रसङ्ग एव नेति विशेषतेत्यपशब्दः ।१. विलापे श्वस्तनी (लुट्) ।