पृष्ठम्:शब्दापशब्दविवेकः.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विकारार्थाधिकारः २३६


१०. हरीतक्याः फलानि हारीतकानीत्युच्यन्ते बालैः । ११. अशोको वृक्षः, अशोकं पुष्पमिति कथम् । १२. हिरण्यमयेन पात्रेण सत्यस्यापिहितं मुखम् । १३. स्वर्णिले वाससी वसित्वा१ किमिव न रोचन्ते योषाः । १४. न हि यत्किञ्चिदाप्यं तत्तीर्थं भवति । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । १५. मौक्तिकी मालिका सा (मोह० ५।२३) । नीति चापि रूपे साधुनी । १०. हरीतक्यादिभ्यश्चेति फले प्रत्ययस्य लुब् भवति । हरीतक्यादिषु व्यक्तिरिति लुपि व्यक्तिर्युक्तवद् भवतीति हरीतक्य इत्येव साधु । ११. पुष्पमूलेषु बहुलमिति प्रत्ययस्य लुप् । बहुलवचनात् क्वचि- ल्लुक् । तेन युक्तवद्भावो नेत्यशोकमिति क्लीबं साधु । १२. दाण्डिनायनादिसूत्रे हिरण्मयमिति निपातितम् । तेन हिरण्यम- यमित्यपशब्दः । १३. सौवर्णे सुवर्णमये (स्वर्णमये) इति वा साधु । सर्वस्वर्णमयी लङ्केति श्रीरामायणे । १४. नित्यं वृद्धशरादिभ्य इत्यत्र नित्यग्रहणं किमर्थम् । यावतारम्भ- सामर्थ्यादेव नित्यं भविष्यतीत्याशय एकाचो नित्यं मयट- मिच्छन्ति तदनेन क्रियत इत्युक्तं काशिकायाम् । तेन अप्शब्दा- न्मयटि अम्मयमित्येव साधु । तथा च नाम्मयानि तीर्थानि न देवा मच्छिलामया इति श्रीमद्भागवते प्रयोगः । प्राप्यमिति त्वप- शब्द एव । क्वचिद् आपोमयमिति दृश्यते । तच्छान्दसम् । १५. मौक्तिकीत्यपशब्दः । मौक्तिकानां विकार इत्यर्थे नित्यं वृद्धशरा- दिभ्य इति मयटा भवितव्यम् । मौक्तिकमयीत्येव साधु । मौक्ति- कानामियम् इति शैषिकेऽर्थे वृद्धाच्छ इति छः स्यात् । माला शब्दोष्यस्थाने । माला हि ग्रथितेषु रूढा यथा पुष्पमाला । स्रक्छ- ब्दोपि तद्विषयः । पुष्पादिभ्योऽन्यत्र हारशब्दं प्रयुञ्जते कुशलाः प्रयोक्तारः । १ - वस आच्छादनेऽदादिः ।