२३८ शन्दापशब्दविवेके
४. न दारवे पात्रे दुह्यात् । अग्निर्वा एष यद् दारुपात्रम् ।
५. रजतमय्यः शृङ्खला लौहीभ्यो नतरां विशिष्यन्ते, केवलं रुचि-
रतया विभ्रमयन्ति प्रग्रहान्१ ।
६. क्षत्रियस्य हि मुञ्जमयी मेखला विधीयते मन्वादिभिः शास्त्रका-
रैः ।
७. आश्मानि प्रायशो गृहाणि वाराणसेयानि ।
८. कर्पासमयानि वासांसि न तथा हृदयग्रहणीयानि२ भवन्ति यथा
कौशेयानि ।
६. यथा जतुमयान्याभरणानि परिहरणीयानि भवन्ति तथा त्रपु-
मयानि गृहभाजनानि।
४. दारुशब्दस्य वृद्धत्वात्ततो नित्यं वृद्धशरादिभ्य इति नित्यं मयटि
दारुमये पात्र इति वक्तव्यम् । छान्दसमिदं वचनम् । छन्दसि च
सर्वे विधयो विकल्प्यन्त इत्यणि दारवशब्दः साधुः । रजतादिगणे
नीलदारु पीतदारु तीवदारु इति शब्दत्रितयं पठ्यते । दारुशब्दः
स्वतन्त्रस्तु न श्रूयत इति प्रारिणरजतादिभ्योञ् इत्यत्रोऽप्रसङ्गः ।
५. प्राणिजतादिभ्योञ् इत्यञि स्त्रियां ङीपि राजत्य इति न्याय्यं
स्यात् । मयड् वैतयोर्भाषायामिति पक्षे मयटि रजतमय्य इति न
भवति । रजतशब्दोऽनुदात्तादिः । ततोऽनुदात्तादेश्चेत्यञि सिद्धे
पुनर्वचनं मयड्बाधनार्थम् ।
६. मयड् वैतयोर्भाषायामभक्ष्याच्छादनयोरिति विकल्पेन मयटि
मुञ्जमयीति साधु । पक्षे मौञ्जीति ।
७. अश्मनो विकार आश्मः, आश्मन इति च । टिलोपः पाक्षिक: ।
तस्य विकार इत्यण् । मयड् वैतयोरित्यनेन मयटि अम्मयानीति
च भवति ।
८. बिल्वादिभ्योऽण् इत्यत्र गणे कर्पासी शब्दः पठ्यते । तेन कार्पा-
सानीत्येव साधु । मयड्विकल्पोऽपि न । आच्छादने मयटः प्रति-
षेधात् ।
६. त्रपुजतुभ्यां षुक् इत्यण् षुगागमश्च । तेन जातुषाणि त्रापुषा-
णीति च भवति । ओरञ् इत्यस्यापवादः । मयड् वैतयोर्भाषाया-
मित्यनेन विभाषा मयट् तु भविष्यत्येव । तेन जतुमयानि त्रपुमया-१. बन्दी:, बद्वान् । २- करणेऽनीयर्, यथा स्नानीयमित्यत्र ।