विकारार्थाधिकारः २३७
३०. 'रथिनो रथिको रथी' इत्यमरे पाठः । तत्र रथिन इत्येकवचना-
न्तं कथम् ?
३१. सुरभिलतमा मूर्धन्यूर्वं कुतः कुसुमावली (नारा० ५०।६)
३२. तत्स्तोत्रहर्षुलमना: (नारा० १२।६) ।
३३. विषाणी ककुद्वान् प्रान्तेवालधि: सास्नावानिति गोत्वे लिङ्गम्
(वै० सू० २।१८)।
३०. मेधारथाभ्यामिरन्निरचौ इति वार्तिकेन रथिर इति तु भवति ।
रथिन इत्यपपाठ इति स्वामी ।
३१. सिध्मादिष्वदर्शनात्सुरभिलमिति न सिध्यति ।
३२. हर्षुलमिति दुष्टम् । मत्वर्थीयेषूलचोऽविधे: । औणादिकत्वेन
साधुत्वेपि रूढेरपहारो दोषः । हर्षुलो मृगो भवति कामुको वा ।
३३. हरित् ककुद् गरुत् - एते यवादिषु पठ्यन्ते । तेन झय इति प्राप्त
वत्वं न भवति । ककुद्मान् इत्येव साध्विति पाणिनीयाः ।
इति तद्धितेषु मत्वर्थीयविवेचनम् ।
विकारार्थाधिकारस्तृतीयः ।
१. प्रायेण कृमुकविकाराश्चापा भवन्ति क्वचित् तालमया अपि ।
२. उत्तरेण मे निकेतनं काञ्चनी वासयष्टिरित्युपलक्षय ।
३. दार्भमुञ्चत्युटजपटलं वीतनिद्रो मयूरः । (शाकुन्तले प्रक्षिप्तम्) ।
१. तालादिभ्योऽण् इति मयडादीनामपवादोऽण् विधीयते । तेन
ताला इत्येव साधु ।
२. क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते इत्यौत्सर्गिकः तस्य
विकार इत्यरण् भवति न तु नित्यं वृद्धशरादिभ्य इत्यपवादभूतो
मयट् । तेन काञ्चनीति साधु । इदंरूप एवैष शब्दः प्रयोगेषु
प्रचरति ।
३. नित्यं वृद्धशरादिभ्य इति शरादित्वाद् दर्भशब्दान्मयडेवोचितः ।
दर्भमयमित्येव साधु ।