पृष्ठम्:शब्दापशब्दविवेकः.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३६ शब्दापशब्दविवेके


२२. इदानीं महाधनिन एव बलिनो गण्यन्ते । २३. मयि नाथ महापराधिनि पातय क्षणं कृपामसृणितं१ कटाक्षम् । २४. इमे साहित्यमहारथिनः कवयो येषामाकुमारं गीयते यशः । २५. स्वर्णालङ्करणा अङ्गनाः कामपि स्फाति२ कथयन्ति जनपदस्य । २६. पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (अष्टा० २।२।१) । २७. विशीर्णकर्णास्यकरा विनियन्तृपताकिन: (भा० द्रोण० ११५ २५)। २८. विचकिला इमाः सुमनसः कस्य सचेतसश्चेतो न हरेयुः । २९. फलपुष्पलतापत्रशाखाविटपमूलवान् । वृक्षबीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम् ।। (यो० वा०) । २२. महाधना इत्येव साधु । उक्तो हेतुः । २३. नित्यं महान्तोऽपराधा यस्य सन्ति स महापराधी । कर्मधारयान्म- त्वर्थीयः । अत्र नित्ययोगे मत्वर्थीय इनिः । नायमर्थो बहुव्रीहिणा शक्यो गमयितुमिति न तस्य विषयः । बहुव्रीहिश्चेत्तदर्थप्रतिपत्ति- कर इति ह्युक्तम् । २४. महारथा इत्येव युक्तम् । महारथिन इत्यपशब्दः । न चास्य प्रयोगो दृष्टचरः । २५. स्वर्णालङ्करणा इति निर्दुष्टम् । स्वर्णस्य विकारः स्वर्णिम इति क्वचिन्मूढेषु प्रचरति । २६. एकदेशोऽस्यास्तीत्येकदेशी । तेन एकगोपूर्वाट्ठञ् नित्यमिति ठञ् प्राप्नोति । अत एव निर्देशादिनिर्द्रष्टव्यः । २७. विनियन्तपताकिनः । विगतो नियन्ता (हस्तिपक:) पताका च येषां ते विनियन्तृपताका इति बहुव्रीहिणा वक्तव्यम् । न तु द्वन्द्व- गर्भात्कर्मधारयाद् इनिः कार्यः । २८. विकचिला इत्यपशब्दः । हिन्दीव्यवहारेण परवान् प्रयोक्तैवं प्रयुङ्क्ते । विकचा व्याकोचा विकसिता इति वा प्रयोक्तव्यम् । २६. अत्र योगवासिष्ठवचने मतुब्दुष्यति द्वन्द्वादिनिना भवितव्यम् ।१-कृपया स्निग्धम् । २-वृद्धिम् ।