मत्वर्थीयाधिकारः २३५
१३. हा पितृवन्तोऽप्यनाथवत् कदर्थ्यन्तेऽमी शिशवः ।
१४. किं न स्मरसि सुधीमतो हनुमतोऽकृतार्थो न निवर्तेयेति वचः ।
१५. मात्रादिमूर्तिमतां देवानां वरिवस्ययैव परमं सुखमिति सूत्रकारा:
समामनन्ति ।
१६. क्रोधिलस्वभावस्य हि भ्रश्यति विवेकः, भ्रश्यन्ति चार्थाः ।
१७. सर्वे लोका न्यूनातिरिक्तसुखदुःखवन्त इत्यवश्याभ्युपेयम् ।
१८. चक्षुष्मानपि सूक्ष्मं तमर्थमीक्षितुं नेष्टे किमुताचक्षुष्मान् ।
१९. चत्वारोऽपि भ्रातरः परं मेधस्विनोऽभूवन् ।
२०. दरिद्रिण इमे गृहस्थिनः कथं कथमपि लोकयात्रां निर्वहन्ति ।
२१. यदा चिन्ता कर्मोन्मुखिनी भविष्यति तदार्थान: १समधिष्यन्ति
१३. मादुपधायाश्च मतोर्वोऽयवादिभ्य इति सूत्रस्याप्रवृत्तेः पितृमन्त
इत्येव साधु ।
१४. सुधियो धीमतो वेति वक्तव्यम् । शोभना धीर्यस्य सुष्ठु ध्यायतीति
वा सुधीः । तत्र मतुपा नार्थः ।
१५. अन्ये देवा अमूर्ता मात्रादयश्च मूर्तिमन्त इति चेदभिप्रायो न
कश्चिद्दोषः । मात्रादिमूर्तिरूपेण स्थिता ये देवा इति चेदर्थः,
मात्रादिमूर्तीनामिति बहुव्रीहिणा वक्तव्यम् । मात्रादयो मूर्तयो
येषामिति विग्रहः ।
१६. क्रोधिलमिति संस्कृताभासोऽपशब्दः । क्रोधस्वभावस्येति वा
वाच्यं क्रोधनस्येति वा ।
१७. न्यूनातिरिक्तसुखदुःखा इति बहुव्रीहिसमाश्रयेण वाच्यम् ।
न्यूनातिरिक्तं सुखदुःखिन इति वा द्वन्द्वादिनिना ।
१८. अचक्षुष्मानित्यपास्याचक्षुरिति बहुव्रीहिः समाश्रेयः ।
१६. अस्मायामेधास्त्रजो विनिरिति मेघाशब्दाद्विनिर्विहितः । तेन
मेधाविन इत्येव साधु ।
२० दरिद्रा इमे गृहस्था इत्येव साधु । इनेरप्रसङ्गात् । गृहे तिष्ठतीति
ग्रहस्थः । सुपि स्थ इति कर्तरि कः । न हि गृहस्थशब्दो गृहे
स्थितिमाह, येन तस्माद् इनिरुत्पद्येत ।
२१. उद्गतं मुखं यस्या इति बहुव्रीहौ स्त्रियां स्वाङ्गाच्चोपसर्जनादिति
वा ङीषि उन्मुखीत्येव साधु ।
१. सिद्धा भविष्यन्ति । फलिष्यन्ति ।