पृष्ठम्:शब्दापशब्दविवेकः.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शब्दापशब्दविवेके २३४


६. बहवो दण्डा अस्यां शालायां सन्तीति दण्डिनीयं शाला । ७. निवृत्तदेहाभिमानिनः प्रत्यग्दृशो१ मन्वादयोऽत्र प्रमाणं न त्वस्म- दादयः पराग्दृशः । ८. रजस्वल एष पन्थाः । पादाहतं रजो मूर्धानमारोहति नेत्रे च रुजति ९. अत्र जपदे नावृत्तिः३ कश्चिदस्ति न वाऽनेकवृत्तिमान् । १०. फालकुद्दाललाङ्गलवन्तः कृषीवलाः क्षेत्राणि प्रस्थिता: । ११. सर्वशक्तिमतीश्वरे शङ्कयं नोपपद्यते । १२. ब्राह्मादिषु विवाहेषु चतुर्ष्वेदानुपूर्वशः । ब्रह्मवर्चस्विनः पुत्त्रा जायन्ते शिष्टसंमताः (मनु० ३।३९) । ६. एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृताविति वचनात्सप्त- म्यर्थे इनिर्नेति मतुपि दण्डवती शालेति वक्तव्यम् । ७. निवृत्तदेहाभिमाना इत्येवं वक्तव्यम् । न कर्मधारयाद् मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर इति वामनवचनाद् निवृत्तदेहाभि- मानिन इति न युक्तम् । ८. रजःकृष्यासुतिपरिषदो वलच् इति मत्वर्थीयो वलच् इति निर्दुष्टं रूपम् । प्रयोगस्तु दुष्यति । रजस्वला स्त्री भवति । इति- करणो विषयनियमार्थः सर्वत्र संबध्यते । तेनेह न भवति । रजो- ऽस्मिन्ग्रामे विद्यत इत्युक्त काशिकायाम् । स्त्रीविषयादन्यत्रापि रजस्वलशब्दो दृश्यत इति सापवादं वृत्तिकारवचनम् । यथा मनौ (६।७७)- रजस्वलमनित्यं चेत्यत्र रजस्वलमिति देहविशेषणं प्रयुक्तम् । ९. अनेकवृत्तिरिति बहुव्रीहिणा वक्तव्यम् । उक्तो हेतुः । १०. द्वन्द्वाच्चोपतापगर्ह्यादिनिरिति फालकुद्दाललाङ्गलिन इत्येव युक्तम् । मतुपोऽपवाद इनिः ११. सर्वाः शक्तयोऽस्मिन्निति बहुव्रीहिणा सर्वशक्तिरिति वाच्यम् । उक्तोऽत्र हेतुः । १२. ब्रह्मणो वर्चः ब्रह्मवर्चसम् । ब्रह्महस्तिभ्यां वर्चस इत्यसमा- सान्तः । तदन्तादत इनिठनाविति इनिः । तेनब्रह्मवर्चसिन इत्येवेति पाणिनीयाः।१-अन्तर्दृष्टयः । २-बहिर्दृष्टयः ३-अलब्धजीविकः ।