मत्वर्षीयाधिकारः २३३
२५. मन्दन्ते मन्दुरायां...बाह्लीका वाडवेया: (मोह० २।१६) ।
१९) श्रूयते । असितो देवलश्चेत्येकस्यैव द्वे नामनी भिन्ने वा द्वे
व्यक्ती इति विभ्रमः केषाञ्चित् ।
२५. मन्दुरायामिति कीर्तनेन वाडवेया इत्यश्वा अभिप्रेयन्ते । न च
वाडवेयोऽश्वमाचष्टे सामान्यम् । वडवाया वृषे वाच्ये स्त्रीभ्यो
ढग् इति ढग्भवति । अपत्ये तु वाडव इत्येव ।
मत्वर्थीयाधिकारो द्वितीयः ।
१. ये भगवति श्राद्धाः१ प्रणताश्च ते पूतपापा: स्वर्गाय राध्यन्ति ।
२. सर्वप्रिये ज्येष्ठे सुते विप्रोषिते कथं नु माता सुखवती स्यात् ?
३. यववानयं स्थायुकः२ । अयं हि ग्रामीणेष्वाढ्यतमो मतः ।
४. अयं वातातिसारी, अयमतिसारकी
५. 3रूपिणीयं कन्या कस्य मनो नावर्जयति ?
१. प्रज्ञाश्रद्धार्चाभ्यो ण इति मत्वर्थीयो णः । श्राद्धाः श्रद्धावन्तः ।
२. सुखादिभ्यश्चेति इनिप्रत्ययो नियम्यते । तेनान्यो मत्वर्थीयो न
भवति । तस्मात् सुखिनीत्येव साधु ।
३. मादुपधायाश्च मतोर्वोऽयवादिभ्य इति मतोर्वत्वे यवादिपर्युदा-
साद् यवमानित्येव साधु ।
४. द्वन्द्वोपतापगह्यत्प्राणिस्थादिनिः (५।२।१२८) इति वातातिसारौ
इत्यस्माद् द्वन्द्वादिनौ 'वातातिसारी' इति साधु । केवलादतिसार-
शब्दात्तु वातातिसाराभ्यां कुक् च इतीनौ कुगागमे चातिसार-
कीति साधु । वाताद् वातकी
५. रसादिभ्यश्चेति मतुप् । रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम् ।
अन्ये मत्वर्थीया मा भूवन्निति । प्रायिकमेतद् रसादिभ्यश्चेति
वचनम् । इतिकरणो विवक्षार्थोऽनुवर्तते । अथवा गुणादित्यत्र
पठ्यते । तेन ये रसनेन्द्रियादिग्राह्या गुणास्तेषामत्र पाठः ।
'रूपिणी' इत्यत्र तु शोभा गम्यते ।
कीति साधु । वाताद्१. श्रद्धावाञ्छ्राद्ध: । २-ग्रामेऽधिकृतः । ३-सुन्दरी ।