२३२ शब्दापशब्दविवेके
१८. अपत्यार्थ आर्षार्षेययो: कः शब्दः कश्चापशब्दः
१९. वाडववाडवेयशब्दौ व्युत्पादय व्यवहारं च दर्शय ।
२०. प्रदीयतां दाशरथाय मैथिली । (रा० ६।२५।३३)
२१. रघूणामन्वयं वक्ष्ये । (रघु० १।९)
२२ः माद्रीसुतौ पुष्पफले समृद्धे । इत्यत्र माद्रीति कथम् ?
२३. हन्तानार्ये ममामित्रे सकामा कैकयि भव (रा० २।१२।९३) ।
२४. कथमसितो देवलो व्यासः (गीता १०।१३) ।
च्फञोरस्त्रियाम् (५।३।११३) इति स्वार्थे ञ्य: । कौञ्जायन्यः ।
तस्य ञ्यादयस्तद्राजा इति तद्राजसंज्ञा । तद्राजस्य बहुषु तेनैवा-
स्त्रियाम् इत्यनेन ञ्यस्य लुकि कौञ्जायना इत्येव साधु ।
१८. आर्ष इत्यत्रापत्यार्थो नास्त्येव । ऋषेरिदमार्षमिति व्युत्पत्ते: ।
तस्येदमित्यण् । अपत्यार्थे त्वार्षेय इत्येव साधु । इतश्चानिञ
इति ढक् ।
१९. वडवाया वृषे वाच्ये इति वचनाद् वडवाशब्दाद् वृषेऽभिधेये
ढग्विधिः । वाडवेयो वृषः स्मृतः । बीजाश्व इत्यर्थः । अपत्ये त्व-
णेव भवति वाडव इति ।
२०. दाशरथ इति शेषविवक्षायामणि । अथवाऽत इञ् इति विषये
प्राग्दीव्यतीयोण् । क्वचिदपवादविषयेऽप्युत्सर्गोभिनिविशत इति
कृत्वा ।
२१. राघवाणामिति वक्तव्ये रघूणाम् इत्यभेदोपचारात् । राघवा
रघव इति बुद्ध्योपचारात् । रघुशब्दस्य तदपत्ये लक्षणा वा
बोध्या ।
२२. मद्रशब्दो जनपदवाची क्षत्रियशब्दः । तस्माद् द्वयञ्मगधकलिङ्ग-
सूरमसादण् इति विहितस्यापत्यार्थकस्याणो ऽतः (४।१।१७७)
इत्यनेन लुकि मद्रीति स्यात् । स्वच्छन्दवाचो महर्षयः ।
२३. जनपदशब्दात् क्षत्रियादञ् इत्यपत्यार्थेऽञि केकयमित्रयुप्रलयानां
वादेरियः । ञित्त्वान्ङीप् । संबुद्धौ ह्रस्वः । 'कैकेयि' इत्येव ।
२४. देवलस्यापत्यमित्यणि वृद्धौ दैवल इति स्यात् । संज्ञापूर्वको विधि-
रनित्य इति वृद्धिर्न कृता। अन्यत्र वृद्धिश्चापि दृश्यते यथान्या-
यम् । असितो वा एतेन दैवल इति पञ्चविंशब्राह्मणे (१४।११॥