अपत्याधिकार: २३१
१२. कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा (गीता १८।७२) ।
१३. मानवमाणवयोर्विशेषं चेद्वत्थ नूनं विशेषज्ञोऽसि ।
१४. प्रायेण भ्रातृव्या भ्रातृव्या१ भवन्ति ।
१५. भीष्मे त्रैशब्द्यं श्रूयते--- गाङ्गो गाङ्गेयो गाङ्गायनिरिति । तत्क-
स्मात् ?
१६. अयं श्वाशुरिः । अयं च श्वशुर्यः । को विशेषः ?
१७. इमे गााःर्ग्या:, इमे च कौञ्जायन्याः। उभयेऽपि मान्याः ।
१२. पृथाशब्दात् औत्सर्गिकेऽणि पार्थ इति साधु । क्वचिदुत्सर्गोप्यप-
वादविषयमभिनिविशते ।
१३. मनोरपत्यं पुमान् इत्यर्थे तस्यापत्यमिति प्राग्दीव्यतीयोण् ।
कुत्सितं मूढं च चेत्तदपत्यं माणवशब्दाभिधेयं भवति । स्मरन्ति
च-अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्ध-
न्यस्तेन सिध्यति मारणव इति ।। अल्पो माणवः=माणवकः ।
अनधीतवेदत्वान्मूढत्वं विहिताननुष्ठानाच्च कुत्सितत्वमित्याहुः ।
१४. प्रथमो भ्रातृव्यशब्दो भ्रातुरपत्यमाह । तत्र भ्रातुर्व्यच्चेति
व्यत्प्रत्ययः । द्वितीयः शत्रुपर्यायः । तत्र व्यन्सपत्ने इति व्यन्प्र-
त्ययः । स्वरे भेदः।
१५. गङ्गाशब्दः शिवादिषु पठ्यते तिकादिष्वथ शुभ्रादिषु । तेनाणि
फिञि ढकि च गाङ्गः, गाङ्गायनिः, गाङ्गेय इति त्रैरूप्यं
भवति ।
१६. राजश्वशुराद्यत् इति श्वशुरस्यापत्यमित्यर्थे यति श्वशुर्य इति
सिद्धम् । श्वशुरो नाम कश्चित् । तस्यापत्यमित्यर्थे तु बाह्वादिभ्य-
श्चेतीत्र इति श्वाशुरिरपि । राजश्वशुराद्यत् इति सूत्रे
संज्ञाविशेषस्य ग्रहणं कुतो नेति चेत् । उच्यते । शास्त्रकार्यं हि
स्पष्टार्थेषु प्रसिद्धेषु शब्देषु भवति न त्वप्रसिद्धेष्वधुनातनेषु
तत्समानध्वनिषु संकेतेषु । तदुक्तमाचार्यैः-
अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः ।
शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥ इति ।
१७. याञञोश्चेति गोत्रप्रत्ययस्य यञो बहुषु लुकि गर्गा इत्येव साधु ।
गोत्रे कुञ्जादिभ्यश्चफञ् इति कुञ्जशब्दाच्च्फञ् । ततो व्रात-