२३० शब्दापशब्दविवेके
६. पाराशर्यो व्यास उच्यते न चासौ पराशरस्य गोत्रापत्यम् । तत्
कस्मात् ।
७. कथमनन्तरोऽश्वत्थामा द्रौणायन इत्युच्यते ?
८. दाक्षिण्यं नाम बिम्बोष्ठि बैम्बकानां कुलव्रतम् (मालविका)।
९. विरला ह्यार्षेय्यो भणितयोऽस्य वचसस्तुलामारोहन्ति ।
१०. वत्स ! कथं जानीषे इमे गार्ग्या इमे मौद्गल्या इमे च मौद्गला
इति ।
११. प्राक् केकयीतो भरतस्ततोऽभूत् (भट्टि १११४) ।
६. गोत्ररूपाध्यारोपेण तथा व्यपदेश इति विद्धि । तथारोपे च
पश्चिमे वयसि वर्तमानस्य भगवतः पराशरस्य व्यासोऽजनीत्य-
नन्तरापत्यं सन्नपि व्यासो गोत्रापत्यमिवाऽभूत् इति हेतुः स्यात् ।
७. नैवात्र महाभारतद्रोणो ऽभिप्रेतः । किं तर्ह्यनादिः । तत इदं गोत्रे
प्रत्ययविधानम् । इदानीं श्रुतिसामान्यादध्यारोपेण तथाभिधानं
भवति ।
८. व्यासवरुडनिषादचण्डालबिम्बानाम् इति इञि प्रत्ययेऽकङादेशे च
बैम्बकिरिति शब्दः । बिम्बकशब्दाद्वाऽपत्यार्थे प्राग्दीव्यतीयोऽण्
द्रष्टव्यः ।
९. इतश्चानिञ इदि ढकि ङिपि आर्षेयी इति रूपम् । ऋषिभणि-
तिर्ऋषेरपत्यं भवत्युपचारात् । तेन सर्वं समञ्जसम् ।
१०. यञञोश्चेति यञो बहुषु लुकि गर्गा मुद्गला इत्येव साधु ।
मुद्गलस्य गोत्रापत्यं मौद्गल्य: । मौद्गल्यस्य शिष्या मौद्-
गलाः । कण्वादिभ्यो गोत्रे (४।२।१११) इत्यण् ।
११. केकयस्यापत्यं स्त्रीति जनपदशब्दात्क्षत्रियादञि अतश्च (४।१।१७७)
इति लुको 'न प्राच्यभर्गादियौधेयादिभ्य (४।१।१७८) इति निषेधे
केकय मित्रयुप्रलयानामिति यादेरियादेशे आदिवृद्धौ कैकेयीति
स्यात् । तथा च रघुकारप्रयोग:-कैकेयि ! कामाः फलितास्तवे-
ति । अयमज्ञ समाधि:-केकयशब्दो मूलप्रकृतिरेवोपचारात्स्त्र्य-
पत्ये वर्तते इति न्यासः । केकयशब्दः शार्ङ्गरवादिषु पठ्यते, तेन
स्त्रियां ङीन् ।