अथ तद्धितेषु विवेच्यानि । तत्रापत्याधिकारः प्रथमः
१. कौरव्याणां पाण्डवानां च दारुणं जन्यमजनि ।
२. तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् (श्रीरामायणे) ।
३. वैयासः शुको ब्रह्मविदां वरो बभूव ।
४. ज्यैष्ठेयो रामो माध्यमेयो भरतः कानिष्ठेयौ च लक्ष्मणशत्रुघ्ना-
विति रामायणे स्थितम् ।
५ युधिष्ठिरादयः पञ्च पाण्डवेया धर्मप्रधाना अधर्मभीरवश्चेति
लौकिका: प्रतिपन्नाः, परीक्षकास्तु विप्रतिपन्नाः ।
१. कुरुनादादिभ्य इति ण्यप्रत्यये कौरव्य इति भवति । ते तद्राजा
(४।१।१७४) इति ण्यस्तद्राजसंज्ञकः । तद्राजस्य बहुषु तेनैवास्त्रि-
यामिति (२।४।६२) बहुवचने ण्यस्य लुकि कुरव इत्येव रूपम् ।
षष्ठ्यां कुरूणामिति ।
२. विमातृशब्दः शुभ्रादिषु पठितः । तेन ढकि वैमात्रेय इत्येवेष्टं
पाणिनीयानाम् ।
३. सुधातुरकङ् (४।१।६७) इत्यत्र व्यासवरुडनिषादचण्डालबिम्बा-
नामिति वक्तव्याद् इञि प्रत्ययेऽकङि चान्तादेशे वैयासकिरित्येव
न्याय्यम् ।
४. ज्येष्ठा कनिष्ठा मध्यमेत्येते शब्दा कल्याण्यादिगणे पठिताः । तेन
कल्याण्यादीनामिनङ् इति ढक् प्रत्ययो भवति तत्संनियोगेन च
इनङादेशः । तस्माज् ज्यैष्ठिनेयः, माध्यमिनेयः कानिष्ठिनेय इति
रूपाणि साधूनि भवन्ति ।
५. पाण्डवेय इति भारते बहुत्र दृश्यते । शीघ्रतां नरसिंहस्य पाण्डवे-
यस्य पश्यत इत्यत्र द्रोणपर्वणि (४८।२०) यथा । तत्र स्वच्छन्द-
वाचो महर्षय इत्येव सुवचम् । पाण्डव इत्येवेति च पाणि-
नीयाः । शुभ्रादिराकृतिगण इति स्वीकारे तु ढकि प्रत्यये यथा-
स्थितं साधु । ढे लोपोऽकद्र् वा (६।४।१४७) इति उलोपो न ।
कद्र् वाः पर्युदासेन स्त्रीलिङ्गस्य ग्रहणात् । ओर्गुणः ।