पृष्ठम्:शब्दापशब्दविवेकः.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२८ शब्दापशन्दविवेके


१२४. न भाति वाससि क्लिष्टे रङ्गयोग इवाहितः (सुश्रुते २।१५७।८) । १२५. अन्यस्य न बुभूषकः (भा० अनु० ११७।२५) । १२४. रङ्ग इत्यत्र करणे घञ् । घञि च भावकरणयोः (६।४।२७) इति करणेनुनासिकलोपो विधीयते । तेन राग इत्येव साधुः । १२५. बुभूषको भूतिमिच्छुः । ताच्छील्यादेरविवक्षायां सनाशंसभिक्ष उः (३।२।१६८) इत्यनेन उप्रत्ययो न । सामान्येन विहितो ण्वुल् भवति । इति कृत्परिशेषविवेचनम् ।