पृष्ठम्:शब्दापशब्दविवेकः.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कृत्परिशेषाधिकारः २२७


११९. सुरपतिनिलयान् सम्पदां सम्प्रदायान् (मोह० ४।३०) । १२०. कन्यादानं समानं सुभगसितसुताप्रीतिकारं च चक्रे (मोह. ४।३०) । १२१. गजानां पङ्कमग्नानां गजा एव धुरन्धराः (हितोप० १।१८१) । १२२. शूराणां च नदीनां च दुर्विदाः प्रभवाः किल (भा० आदि० १३७। ११)। १२३ आक्रामकानेव निहन्तुकामाः (तुलसी० ११८) । शक्य: कर्तुम् । तत्र कुत्सितग्रहणं कर्तव्यम् इत्युक्तेः । तेन मातृ- घाती पितृघातीत्यादिष्वेव स विधिः । कर्मण्यण् इत्यण् वा स्यात् । यथा चौरघातो हस्तीत्यत्र टकमकृत्वा कृत्यल्युटो बहुलमिति बहुलवचनादरण् । अणि निवपातादिति स्यात् । ११९. सम्पदां सम्प्रदायान् । अत्र कर्तरि प्रत्ययः । स च श्याद्व्यधेति सूत्रेण णो न । केवलात्स विधीयते । उपसर्ग उपपदे तु आतश्चो- पसर्गे (३।१।१३६) इति कः स्यात् । १२०. सुताप्रीतिकारं च चक्रे । अत्र प्रीतिकारम् इति प्रीतेः कारणमिति गम्यते । तेन कृञो हेतुताच्छील्यानुलोम्येषु (३।२।२०) इत्यनेन सुताप्रीतिकर इत्येव । शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् (रा० ६।१२६।१) इत्यत्र यथा । १२१. संज्ञायां भृतवृजिधारिसहितपिदमः (३।२।४६) इत्यनेन संज्ञायां धारेः खच् विधिः, तेनासंज्ञायां न प्राप्नोति । शब्दस्तु प्रसिध्यति । अमरोपि पठति-धूर्वहे धुर्यधौरेयधुरीणाः सधुरन्धरा इति । न च संज्ञाग्रहणं प्रायिकम् इति वृत्त्यादिषु स्थितम् । १२२. दुर्विदा इति खलि न सिध्यति । गुणस्य दुर्वारत्वात् । दुर्वेदा इत्येव शब्द इति पाणिनीयाः । १२३. आक्रामक इत्यत्र वृद्धिर्दुर्लभा । नोदात्तस्य मान्तस्यानाचमेः (७।३।३४) इति वृद्धिप्रतिषेधात् । आक्रमक इत्येव शब्दः ।