२२६ शब्दापशन्दविवेके
११४. धनुररिभिरसह्यं मुष्टिपीडं दधाने (भट्टि०) ।
११५. बृहन्नले गायनो वा नर्तनो वा पुनर्भव (भा० वि० ३७।३२) ।
११६. जगाम सा पादचरी तदानीम् (क्रिस्तु ५।२) ।
११७. कुत्रापि पीनकुचया सह शायिनं तम् (मोह० ६।३१) ।
११८. दुरितनिवहहात् पुत्रदात्कांस्यपात्रात् (मोह० २।४) ।
११४. सप्तम्यां चोपपीडरुधकर्ष इत्यनेनोपपूर्वादेव पोडयतर्णमुल्
विहितः । उक्तं हि वृत्तिकारेण-उपशब्दः प्रत्येकमभिसम्बध्यत
इति । तेन मुष्टिपीडमित्यसाध्वेव । अयं सम्प्रदायं प्रत्यनादरो
भट्टे: ।
११५. शिल्पिनि ष्वुन् इति ष्वुनि नर्तक इति भवति । अयमत्र समाधि-
र्भवितुमर्हति-नृती गात्रविक्षेपे इत्यकर्मकः । गात्रविक्षेपश्च चलना-
न्नातिभिन्नः । तेन चलनशब्दार्थादकर्मकाद्युच् इति ताच्छीलिके
युचि नर्तन इति साधु ।
११६. पादचरीति दुष्टम् । चरेष्ट इत्यनेनाधिकरण उपपदे टो विहितो
न तु करणे । मद्रेषु चरति कुरुषु चरति मदचरी कुरुचरीत्युदा-
हरणे । दीक्षितः पचादिगणे चरट् इति पठति । तत्प्रमाणं चेद्
ङीपा पादचरीत्यपि नासाधु ।
११७. शायिनम् इत्यत्र णिनिर्न प्राप्नोति । सुप्युपपदे तद्विधेः । ताच्छी-
ल्यमपि नास्तीत्यन्यदेतत् । कामं केवलाद् धातोरसुप्यपि णिनि-
र्विहित आवश्यके द्योत्ये । आवश्यकं च नेह द्योत्यम् । लोके हारि
च वत्सराज चरितमित्यादिषु तस्य स्फुटमवगमात्स्थाने णिनिः ।
ह्रियते बुध्यमानोपि नरो हारिभिरिन्द्रियै: (वन० २।६६)
इति भारतवाक्येपि ।
११८. दुरितनिवहहात् इति दुष्टम् । दुरितनिवहं हन्तीति दुरितनिव-
हहः । अत्र शास्त्राभ्यनुज्ञामन्तरेणैव कविना हन्तेर्डः कृतः । डप्र-
करणेऽन्येष्वपि दृश्यत इत्यनेन ड: स्यादिति चेन्न । दशिग्रहणं
प्रयोगानुसरणार्थम् । गमेश्च स विधिर्न हनः । आशिषि हनः
(३।२।४९) इत्यनेन ड: स्यादिति चेन्न । आशिषि गम्यमानायां स
विधिः । इह चाशीन गम्यते । क्विप् च (३।२१७६) इति क्विप्
छक्यः कर्तुम् । रूपं तु न सिध्यति । पञ्चम्यां दुरितनिवहघ्न
इति स्यात् । कर्मणि हनः (३।२।८६) इत्यनेन णिनिस्तु न