कृत्परिशेषाधिकारः २२५
१०७. कामक्रोधौ मनुष्याणां खादितारौ वृकाविव ।
१०८. ऐव विद्वन् पितुः कामात्पान्तावल्पम्पचान्मुनीन् (भट्टि० ६।९६) ।
१०९. अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः । अनर्थे चार्थसंज्ञस्त्वं किमर्थं
नावबुध्यसे ।। (भा० शां० ३३७।२७) ।
११०. व्याप्तं गुहाशयैः क्रूरैः कव्यादैः सनिशाचरैः (भट्टि० ६।६३)।
१११. कुखगस्यातरोऽम्भोधिः सर्पारेर्गोष्पदायते (यो० वा० ५।६७।३) ।
११२. शरं ह्यपासानिशितं संदधीत (मुं० उ० २।२।३)
११३. स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः ।
यदुपास्तिमसावत्र परमात्मा निरूप्यते ।। (कुसुम०)
१०७. खादितारावित्यपशब्दः। निन्दहिंसक्लिशखादेति सूत्रेण वुञ्वि-
धानाद् वुञि खादकावित्येव युज्यते वक्तुम् । ननु वाऽसरूपन्यायेन
तृजादयः कुतो न ? ण्वुलैव सिद्धे वुञ्विधानं ज्ञापनार्थं ताच्छीलि-
केषु वाऽसरूपन्यायेन तृजादयो न भवन्तीति ।
१०८. अल्पम्पचान् इति न शास्त्रेण सेद्धुमर्हति । मितनखे च इत्यत्रार्थ-
ग्रहणे प्रमाणाभावात् । चकारस्यानुक्तसमुच्चयार्थत्वादिति तु
जयमङ्गलायां स्थितम् । तद्वृत्तिकारादयो न समर्थयन्त इति
नादृत्यं भवति।
१०९. आतोऽनुपसर्गे कः, प्रे दाज्ञ इत्युभाभ्यां सूत्राभ्यां कस्याप्राप्तेर्हित-
संज्ञ इति कृद्वृत्त्या न सिध्यति । हितमिति संज्ञा (बोधः) यस्येति
बहुव्रीहिणा समाधेयम् ।
११०. क्रव्ये चेत्यनेन विटि क्रव्याद्भिरित्येव सुवचम् । कृत्तविकृत्त-
पक्वमांसभक्षः क्रव्याद इति वृत्तौ स्थितम् । स च नेह विव -
क्षितः।
१११. खगस्यातरोऽम्भोधिरित्यत्र ईषद्दुःसुषु सत्स्वेव खलो विधेरनुपप-
दादप्राप्तेरतर इति दुःसमाधानम् । तरणं तरः । अविद्यमानस्त-
रोऽस्येति बहुव्रीहिणा कथंचित्समाधेयम् ।
११२. उपासेति दुःसाधम् । ण्यासश्रन्थो युच् इति युचि उपासनेत्येव
साधु । वाऽसरूपविधिनाङ् वा स्यादिति मा स्म शङ्कि । अस्त्रि-
यामित्युक्तेः स्त्र्यधिकारं वर्जयित्वा वाऽसरूपविधिर्भवति ।
११३. उपास्तिरित्यपशब्दः । उक्तो हेतुः ।