पृष्ठम्:शब्दापशब्दविवेकः.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२४ शब्दापशन्दविवेके


१०१. त्वमेव शास्त्री भवसीह गुर्वी सद्देशनानां जगतां गुरूणाम् (प्राचार्यस्य विश्वबन्धोः) । १०२. तपोनिरोधरोषणस्फुरत्तृतीयलोचनो भगवान् पिनाकपाणि: क्षणेन भस्मीचकार कन्दर्पम् । १०३. त्वदेकनिष्ठस्य तु यत्न एष त्वद्भक्तिरक्तेर्मम विश्वबन्धोः (प्राचार्यस्य विश्वबन्धोः) । १०४. मासद्वयपरीमाणे ततः कालेऽतिगच्छति (बृ० श्लो० सं०५०८३) । १०५. पाणिनीयव चोव्याकरणस्य सङ्ग्रहस्य करो भगवान् व्याडिः । १०६. कृष्णस्वान्तहरी...सुररिपोः प्राणादपि प्रेयसी (कल्पलता श्लो० १४) । १०१. शासु अनुशिष्टौ उदात्तः । तेन तृचि इटि ङीपि शासित्रीत्येव रूपम् । बाढम्, ऋत्विग्विशेषे प्रशास्तृ इत्यनिट्कं व्युत्पाद्यत उणादिषु । सुगतेपि शास्तेति शब्दः प्रसिद्धः । तत्रापशब्दबहुला सौगतानां वागिति मर्षणीयास्ते वराकाः । १०२. तपोनिरोधरोषणस्फुरत्तृतीयलोचन: । अत्र रोषणशब्दस्या- स्थाने प्रयोगः । रोषण इति रोषशीलो भवति । रोषणशब्दे क्रुधमण्डार्थेभ्यश्चेति (३।२।१५१) ताच्छील्ये युज्विहितः । ताच्छील्यं चेहाविवक्षितम् । तपोनिरोधरोषवत्स्फुरत्तृतीय- लोचन इत्येव शोभनं वचः । १०३. पूज्येष्वनुरागो भक्तिरिति प्रामाणिकाः । तेन भक्तिरक्त्योरेकतरं त्याज्यम् । प्रायेणानुपूर्वो रक्तिः प्रयुज्यते विपूर्वो वा, न केवलः । १०४. परिमारणमित्येव शब्दः । दैर्घ्यस्याप्राप्तेः । परितो मानं परि- माणम् । माङो ल्युट् । १०५. करोतीति करः। पचाद्यचि साधुः। शिवमरिष्टस्य करे इति सूत्र आचार्यस्य तथा प्रयोग एव मानम् । लोके प्रयोगस्तु नाक्षि- लक्षी भवति । १०६. 'कृष्णस्वान्तहरी' इति दुष्टम् । हरतेरनुद्यमनेऽचि स्त्रियां टापि कृष्णस्वान्तहरेत्येव निर्दुष्टम् । मन्येऽनुप्रासहृतधीर्बहुश्रुतोऽयं कविरेवं प्रायुङ्क्त ।