कुत्परिशेषाधिकारः २२३
९४. महाधने दुकूलाग्न्ये परिधायोपवीय च (भा० पु० ४।२१।१७) ।
९५. रभेसोक्तानीमानि वाक्यानि तत्त्वस्पृशानि नेति न हदयङ्गमानि
भवन्ति ।
९६. जगत्प्रभोरप्रभविष्णु वैष्णवम् ।
९७. एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे (मनु० ६१५५) ।
१८. सर्वे सङ्क्रामिणो रोगा वर्जयित्वा प्रवाहिकाम् ।
९९. नृपस्तु विबुधाश्रयः कति न सन्ति कुक्षिम्भराः ।
१००. युक्तं नाम विद्वत्समवायः प्रीतिभोजेन सभाज्यतामिति ।
भिहारे वुन् (२११११४६) इति वुनि लवकः । समभिहारेण साधु-
कारित्वं लक्ष्यते । तेन साधु लुनातीति लवकः, लवनकुशल
इत्यर्थः ।
९४. उपवीयेत्यसाधु । उपव्यायेत्येव साधु । व्ययश्चेति सम्प्रसारण-
निषेधात् ।
९५. तत्त्वं स्पृशन्तीति तत्त्वस्पृंशि । स्पृशोऽनुदके क्विन्निति क्विन् ।
९६. भुवश्चेति (३।२।१३८) च्छन्दसि इष्णुचो विधिः, लोके नास्तीति
प्रभविष्णुशब्दोऽपाणिनीयः ।
९७. विस्तार इति पाणिनीया इच्छन्ति । प्रथने वावशब्दे इत्यशब्द-
विषये प्रथने घञं विधत्ते । शब्दविस्तर इति भवति । अगार-
विस्तार इति ।
९८. सङक्रामन्तीत्येवंशीला: सङ्क्रमिणः । उदात्त: क्रमिर्मान्ति इति
नोदात्तोपदेशस्येति सूत्रेण णिनौ प्रत्यये वृद्धिप्रतिषेधेन भवि-
तव्यम् । तेन सङ्क्रमिण इत्येव साधु ।
९९. कुक्षि बिभ्रतीति कुक्षिभृत इति क्विपि कुक्षिभारा इत्यणि रूप-
द्वयं भवितुमर्हति । कुक्षिम्भरा इति प्रमाद एवायम् । फलेग्रहि-
रात्मम्भरिश्चेति सूत्रेऽनुक्तसमुच्चयार्थश्चकार इति कुक्षिम्भरि-
रुदरम्भरिश्चेत्यपि साधु ।
१००. प्रीतिभोज इति चिन्त्यम् । भुजेर्घञि भोग इति स्यात् । कर्तरि
पचाद्यचि भोज इति सूपपन्नम् । भोजो नाम राजा । भुनक्ति
पालयति भोजः।