पृष्ठम्:शब्दापशब्दविवेकः.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२२ शब्दापशब्दविवेके


८७. पुराणान्यपि सर्गादिवर्णनेन तटस्थलक्षणं पुराकृत्य तन्मुखेन मुख्यतया जगतो मूलकारणस्य प्रतिपादन एव पर्यवस्यन्ति । ५८. गिरिशमुपचचार प्रत्यहं सा सुकेशी (कु०) ८९. अयं गोप्रदः, अयं च गोसन्दायः । किंकृतो रूपभेदः । ६०. प्रच्छक इति साधु, पृच्छक इत्यपि । तत्कस्मात् ? ६१. अभियोगशतेनापि दूराधिरूढोऽभिमानो न शक्यः प्रतीकर्तुम् । ६२. येनाप्राप्ते इत्यस्य यत्कर्तृकावश्यप्राप्तावित्यर्थः (परिभाषेन्दु०५७ तम्यां परिभाषायाम् )। ६३. यदि लवकलावकयोरुभयो: कृद्वृत्त्योर्विशेषं वेत्थ शब्दविदसि नूनम् । मिति स्थितम् । तेनायमस्थाने प्रयोगः । दुःखोद्धार इति व्यव- हरणीयम् । दुःख उद्धारो यस्मादिति बहुव्रीहिः । ८७. पुराशब्दस्य गतिसंज्ञा नेति पुरा कृत्वेत्यसमासेन ल्यपमकृत्वा वक्त- व्यम् । ८८. गिरौ डश्छन्दसीति च्छन्दसि डविधेर्लोके गिरिरस्यास्तीति गिरिशः । लोमादित्वाच्छे मत्वर्थीये सति साधु । शेतेरधिकरणे ऽचि गिरिशय इति स्यात् । ८९. प्रे दाज्ञ इति प्रशब्द उपपदे ददातेः के गोप्रद इति साधु । अनुप- सर्ग इत्युक्तेः प्रादन्यस्मिन्सुप्यण् । तेन गोसन्दाय इत्यपि साधु । अर्थ चाविशेषः । ६०. प्रच्छक इति प्रच्छ जीप्सायाम् इत्यस्माण्ण्वुलि रूपम् । पृच्छक इति च पृच्छां प्रश्नं करोतीत्यस्मिन्नर्थे पृच्छाशब्दाणिचि ण्वुलि रूपम् इत्युभयं निरवद्यम् । ६१. प्रतिकर्तुमिति तु युक्तम् । उपसर्गस्य घञ्यमनुष्ये बहुलम् (६।३। १२२) इति घञन्त उत्तरपदे उपसर्गस्य दीर्घत्वं विधत्ते बाहुलकेन। अत्र घञोऽभावात्तद् दुर्लभम् । ६२. मान्तसमानार्थकेनावश्यशब्देनात्र समासः । अत एवावश्यकाध- मर्ण्ययोरिति निर्देशः सङ्गच्छते, अन्यथा मान्तस्य योपधत्वा- भावाद् वुञोऽभावान्निर्देशासङ्गतिः स्यात् । ६३. लुनातेर्ण्वुलि लावकः, लुनातीति लावको लविता । प्रसृल्वः सम-