कृस्परिशेषाधिकारः २२१
८०. इदं स्थूलीकरणमौषधम् । इदं नाम पेलवस्य तवोपकरिष्यति ।
८१. यूथं तदग्रसरगर्वितकृष्णसारम् ( ) ।
८२. ष्ठीवनाऽसृक् शकृन्मूत्ररेतांस्यप्सु न क्षिपेत् ।
८३. देवा एकोनपञ्चाशत्सहाया वज्रपाणिन: (हरि०) ।
८४. स्रक्सूत्रवृत्त्या भावानामन्येषामनुगामकः ।
न तिरो धीयते स्थायी...........॥ ( )
८५. यद् घ्राणभक्षो विहितः सुरायास्तथा पशोरालभनं न हिंसा
(भागवते) ।
८६. कष्टे निमज्जथ दुरुद्धरपापपङ्के ।
८० आढ्यादिषूपपदेष्वच्व्यन्तेषु कृञ: करणे ख्युन् विहितः । च्वौ
सति ख्युना मुक्त ल्युटा भवितव्यम् । न च ल्युट: ख्युनश्च विशेषो-
ऽस्ति । एवं तर्हि प्रतिषेधसामर्थ्यात् ख्युन्यसति ल्युडपि न भवति ।
तेन ल्युटोऽप्ययमर्थतः प्रतिषेधो विज्ञायते ।
८१, पुरोऽग्रतोऽग्रेषु सर्तेर् इत्यनेन अग्रेशब्द उपपदे टो विधीयते । तेन
अग्रेसर इति शब्दः, अग्रसरश्चापशब्दः ।
५२. गुणे सति ष्ठेवनम् इति तु युक्तम् । प्रायेण निपूर्वः ष्ठिविरिति
निष्ठेवनमिति साधीयः । ष्ठीवनमपि दृश्यते । तत्र ष्ठिविषिव्यो-
र्दीर्घोवेति वचनं पठति स्वामी । कुत्रत्यमिदमिति च नो व्याहरति ।
मुकुटस्तु पृषोदरादित्वात्साधुत्वमिच्छति ।
८३. वज्रेण पणितुं व्यवहर्तुं शीलमस्येति वज्रपाणी, तस्य । णिनि-
स्ताच्छील्ये । तदिदं समाधानमात्रम् । न हि पणतिर्व्यवहारसामा-
न्ये वर्तते, किन्तर्हि वणिग्व्यवहारे कितवव्यवहारे वा'। वज्र-
पारणेरित्येव साधु ।
८४. अनुनच्छतीत्यनुगामकः । ण्वुलि रूपम् । अनुदात्तत्वान्नोदात्तोप-
देशस्य मान्तस्याऽनाचमेरित्यनेन वृद्धिप्रतिषेधाप्रसङ्गः ।
८५. आलम्भनमिति तु युक्तम् । लभेश्चेत्यनेन नुम् दुर्वारः । प्रसिद्ध-
श्चाश्वालम्भादिषु प्रयोगेषु नुम् । स कथमुपेक्षितो भागवतकारेण ।
८६. दुरुद्धरश्चासौ पापपङ्कश्चेति दुरुद्धरपापपङ्कः । ईषद् दुःसुषु कृच्छ्रा-
कृच्छ्रार्थेषु इत्यनेन कर्मणि कारके खल् विहितः । दुःखेनोध्रियत
इति दुरुद्धरः कश्चित् (पङ्के निमग्नः)। प्रकृते तु पङ्कविशेषण-