२२० शब्दापशम्दविवेके
७२. इमं वियातं१ कण्ठग्राहमितो यापय ।
७३. एतावती ज्ञानसम्पत्तिरार्याणामिति जानं जानं कस्य चेतः
प्रह्लादेन परवन् न भवति ।
७४. विदुषंमन्या एवोत्सिच्यन्ते२ न तु विद्वांसः ।
७५. किमनागतचिन्तनया । यदेव विधात्रा विधीयते तदेव शुभायेति
श्रद्धत्स्व ।
७६. न हि सर्वाः स्खलितयः सुसमाधा भवन्ति । व्यर्थश्च प्रमादजानी
साधूकरणे प्रयासः ।
७७. न हि ज्ञानेन सदृशं दुःखापहं किञ्चिदस्ति ।
७८. श्वोऽह वाराणसीं गामुकोऽस्मि ।
७९. शूराणां च नदीनां च दुर्विदाः प्रभवाः किल (भा० आदि० १३७।
११) ।
चरतीति क्विपि तृचि इटि गुणे 'कवयितृ' इत्येव रूपम् । तेन
कवितुरित्येतत् प्रामादिकमेव ।
७२. कण्ठे गृहीत्वेत्यर्थे कण्ठे कर्मणि ग्रहेणमुल् दुर्लभः ।
७३. जानातेर्णमुलि ज्ञायं ज्ञायमिति वक्तव्यम् । आतो युक् चिण्कृतो-
रिति युक् ।
७४. आत्मानं विद्वांसं मन्यत इत्यात्ममाने खश्चेति खश् । वसुस्रं सुध्वं-
स्वनडुहां द इति सकारस्य दकारे यरोऽनुनासिकेऽनुनासिको
वेत्यनुनासिकविकल्पे विद्वद्मन्यः, विद्वन्मन्य इति च रूपे भवतः ।
खशि सत्यपि पूर्वपदस्याजन्तत्वाभावान्मुम्न ।
७५. चिन्तिपूजिकथिकुम्बिचर्चश्चेत्यङि टापि चिन्तयेत्येव साधु ।
७६. आतो युच् इति खलोऽपवादः । तेन सुसमाधाना इत्येव साधु ।
७७. अपे क्लेशतमसोः इति क्लेशशब्द उपपदे हन्तेर्ड विधत्ते । तेनात्र
डो दुर्लभः । प्रमाद एवायमिति पाणिनीयाः ।
७८. लषपतपदेत्यादिना सूत्रेण तच्छीलादिषु कर्तृषु गमेरुकञ् विहितः ।
आगामुकं वाराणसी रक्ष आहुरिति चोदाहृतं वृत्तौ । तेन शुद्धे
कर्तरि गन्तास्मीत्येव साधु ।
७६. विद ज्ञाने इत्यस्माद् दुःशब्द उपपदे खलि प्रत्यये गुणे दुर्वेदा
इत्येव साधु ।३. धृष्टम् । ४. दृप्यन्ति ।