कृत्परिशेषाधिकारः २१९
-
६५. सुगेन रथेन यातीति सुखायते राजन्यः ।
६६. शत्रुन्दमानां धुरि कीर्तनीयो रघुरस्य वंशस्य प्रवर्तकः ।
६७. नहि गोमायव आत्मरावैर्यूथपतींस्त्रासयन्ति ।
६८. तापत्रयशङ्करं शङ्करं सततं ध्यायन्ति योगिनः
६९. शिवदर्शनलालसो१ गुरुयुः२ श्रीदयानन्दो यतिवरं श्रीविरजानन्द
मथुरायामुपससाद ।
७०: अमृतम्भरां गुरुवारणीं प्रातर्गायन्ति सश्रद्धं शिष्याः ।
७१. वर्तमानस्यास्य कवितुः कृतौ प्रचुरा संस्कारच्युतिः पदेषु ।
६५. सुदुरोरधिकरणे गमेर्डो विहितः । वाहनमात्रे च करणत्वविवक्षा
लौकिकी प्रसिद्धा । तेन सुगमेन (शोभनो गमोऽस्येति बहुव्रीहिः)
सुखसम्पातेनेति वा वक्तव्यम् । सुगमिति दुर्गप्रतियोगि ।
६६. संज्ञायां भृतवृजि इत्यादिनाऽत्र खच् सुदुर्लभः । नहि शत्रुन्दम
इति संज्ञाऽभिप्रेता । भगवतो रुद्रस्य संज्ञैषेति केचित् । उपचारा-
दन्ये महाविक्रमा अपि शत्रुन्दमा भवन्ति ।
६७. रवः इत्येव साधु । उपसर्ग उपपद एव घञ्विधेः ।
६८. तापत्रयशङ्करम् इत्यत्र कृञो हेतुताच्छील्यानुलोम्येष्विति टः ।
अन्यत्र शङ्कर इति भगवतः संज्ञेति शमि धातोः संज्ञायामित्यच् ।
तेनोभयं साधु ।
६९. गुरुमात्मन इच्छतीति गुरूयति क्याच्छन्दसीति उः प्रत्ययः कृत् ।
तेन गुरुयुरिति सिद्धम् । लोके प्रयोगाप्राप्तेश्छन्दोवत्कवयः कुर्व-
न्तीति समाधेयम् ।
७०. 'अमृतम्भरा' इति अपशब्द एवायम् । संज्ञायामेव बिभर्तेः खञ्-
विधेः ।
७१. कुङ्शब्दे भ्वादिः । कूङ्शब्दे तौदादिकः कुटादिः । अयं ह्रस्वा-
न्त इति न्यासकार: । स्वादेस्तृचि तृनि वा 'कोतृ' इति भवति ।
दीर्धान्तस्य तुदादेस्तु 'कुवितृ' इति, ह्रस्वान्तस्य च 'कुतृ' इति
भवति । तेन 'कवितृ' इति शब्दरूपं न सिध्यति । कविरिवा-१. सतृष्णः । २. गुरुमात्मन इच्छुः ।