कृत्परिशेषाधिकारः २१७
५२. ब्रह्मविदाप्नोति परम् ।
५३. स्वतन्त्रः सम्प्रति प्रौढवया: सुतो न: । न वयं तस्य कृत्याकृत्ये
प्रति उत्तरदायिनः ।
५४. अवग्राहो१ हि शोषकः सस्यस्य । स शाप इव भवति कृषाणा-
नाम् ।
५५. यानेवोपघ्नानवलम्ब्येयं२ नो देववाणी पल्लविता पुष्पिता फलिता
चाभूत्, ते प्रनष्टा इत्यस्या अयं दशाविपर्ययः ।
५६. अजिघ्रै: शास्त्राणामजनि बहुधा वादसरणिः ।
५७. मित्रेण चिरन्तनेन क्षणं साम्मुख्यं दधतस्तस्य चेतसि पूर्वे संलापा
जागरूका३ अभवत् ।
५२. ब्रह्मादिषु हन्तेरेवेति नियमात्कृदन्तवृत्त्या वेत्तीति वित्, ब्रह्मणो
विद् ब्रह्मविदिति समाधेयम् ।
५३. उत्तरदायिन इत्यशक्तमप्रयुक्तपूर्वं च । कृत्याकृत्ययोः प्रतिभुव
इति तु व्यवहारानुगं स्यात् ।
५४. अवे ग्रहो वर्षप्रतिबन्ध इति विभाषा घञ् । पक्षेऽप् । तेनावग्राहो
ऽवग्रह इति रूपद्वयं निष्पन्नं भवति ।
५५. उपध्न आश्रय इति निपातितम् । आश्रयशब्द: सामीप्यं प्रत्या-
सत्ति लक्षयतीत्युक्तं काशिकायाम् । पर्वतोपध्नः। ग्रामोपघ्न
इति चोदाहृतम् । कवयस्तु निरङ्कुशा इत्याश्रयेऽर्थेऽपि प्रयु-
ञ्जते । तद्यथा - छेदादिवोपनतरोर्व्रतत्याविति (रघौ १४३१) ।
कविकुलपतिमनुसरन्तोऽन्येऽपि न दुष्यन्तीति दर्शनं चेत्तथास्तु ।
५६. पाघ्राध्माधेट्दृशः श इति सूत्रेण शप्रत्यये जिघ्र इति सिध्यति ।
उपसर्ग इति केचिदत्र नानुवर्तयन्तीत्युक्तं वृत्तौ ।
५७. जागुरूकः (३।२।१६५) इति जागर्तेरूकः प्रत्ययो विहितस्तच्छी-
लादिषु कर्तृषु । प्रकृते ताच्छील्यमर्थो न घटत इति जागरिता
इति पाठ्यम् ।१. वर्षप्रतिबन्धः।
२. उपध्न आश्रय इति मत्वा प्रयोगः ।
३. जागरिता इति विवक्षति ।