पृष्ठम्:शब्दापशब्दविवेकः.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१६ शब्दांपशब्दविवेके


४४. समयोऽयं नूत्नसाहित्यसृजनस्यानुगुणः । सन्त्यत्र काव्यरसिकाः प्रभविष्णवः । ४५. वसुन्धरेयं नो जननी वसुधरेति१ कोऽसंमूढः संशयीत ? ४६. न हिमहा हिमहानिकरोऽभवत् (शिशु० ६।६३) । ४७. कृतघ्ने नास्ति निष्कृतिः (रा०) । ४८. सन्तः प्रणयिवाक्यानि गृह्णन्त्यनसूयवः (कुमारिलः) । ४९. केचिदाहुः शूद्रस्य मन्त्रजापं प्रत्यनधिकारः । तन्मीमांस्यम् । ५०. अस्तं यियासति रविः । उचितः सम्प्रति कार्योपरामः । ५१. दुष्करा इमाः समस्यापूर्तयः। ४४. सर्जनमित्येव साधु । ल्युटि गुणस्य दुर्वारत्वात् । भुवश्चेति च्छ- न्दोविषय इष्णुज्विधिः । छन्दोवत्कवयः कुर्वन्तीति भाषायामपि प्रभविष्णव इत्यनवद्यम् । ४५. संज्ञायां भृतवृजिधारिसहितपिदम इति संज्ञायां विषये खच् प्रत्ययो भवति तेन वसुन्धरेति रूपम् । असंज्ञायां तु वसुनो घरेति वसुधरेति रूपं साधु । ४६. ब्रह्मभ्रूणवृत्रेषु क्विप् इति सूत्रे वृत्तौ चतुर्विधो नियम उक्तः । तेन हिमकर्मण्युपपदे हन्तेः क्विब्दुर्लभः । बहुलं छन्दसीत्यग्रिम- सूत्रबलादुपपदान्तरेपि क्विब् भवति । मातृहा । पितृहा । छन्दोव- त्कवयः कुर्वन्तीति वचनाद् भाषायामपि समाधेयम् । ४७. कृतघ्न इत्यत्र मूल विभुजादित्वात् को द्रष्टव्यः । ४८. डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानमिति डुः प्रत्ययः । तेन असू- यव इति साधु । ४९. मन्त्रजपं प्रतीत्येव साधु । उक्तो हेतुः । ५०. कार्योपराम इति तूचितम् । यम उपरम इति धातुपाठादुपरम इत्यपि परिग्राह्यम् । ५१. ण्यत्तु भावे न भवत्यनभिधानादिति काशिकायां हनस्त च (३।१। १०८) इत्यत्रोक्तम् । तथापि कृत्यल्युटो बहुलम् इति भावेऽत्र ण्यत् । ण्यति वृद्धौ समास्येति स्यात् । संज्ञापूर्वकविधेरनित्यत्वाद् वृद्धिर्न । बाहुलकाद् यद्वा।१. इति यौगिकम् ।