कुत्परिशेषाधिकारः २१५
३७. कृषिकर्मतो विरतेन कृषीवलेन वस्त्रवयनेन स्व आयो वर्धनीयः ।
३८. आमाशयदोषशामकमिदमौषधं न व्यभिचरति१ स्वामुपयोगि-
ताम् ।
३९. सरला सरसा च काचिदभिनवा व्याकरणपद्धतिनिबद्धव्या ।
४०. यदाऽशेषोऽपि द्विजातिवर्गो निद्रणपरस्तदा को नु क्षमेत पति-
तानुद्धर्तुम् ।
४१. जनिता चोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता
पञ्चैते पितरः स्मृताः ॥
४२. संयोगा विप्रयोगान्ताः पतनान्ताः समुच्छ्रया इत्याभाणको न
जातु स्वमर्थं व्यभिचरन् दृष्टः ।
४३. लोष्टघातमेतमागन्तुकं जीवमितो विद्रावयत ।
३७. वेञ् तन्तुसन्तान इत्यस्माल्ल्युटि आदेच उपदेशेऽशितोत्यात्वे वान-
मित्येव निर्दोषम् ।
३८. आमाशयदोषशमकमिति रूपम् । शमो दर्शन इति दर्शनादन्यत्र
नित्या मित्संज्ञेति मितां ह्रस्व इति ह्रस्वत्वे शमकमिति रूपम् ।
३९ निबन्द्धव्येति साधु । नलोपाप्रसक्तः ।
४०. निद्रणमित्यपशब्दः, निद्राणमिति च शब्दः । निपूर्वो द्रा कुत्सा-
याम् इति धातुः । ततो ल्युट् । संस्कारवानप्ययं शब्दोऽत्यन्तं
विरलप्रयोगः ।
४१. जनिता मन्त्रे (६।४।५३) इति निपातितम् । लोके तु णिलोपा-
भावाद् जनयितेत्येव साधु ।
४२. उदि श्रयतियौतिपूद्रुव इत्यनेन घञि समुच्छ्राय इति तु युज्यते ।
विभाषाऽङि रुप्लुवोरित्यत्र वक्ष्यमाणं विभाषाग्रहणमिह सिंहा-
वलोकितन्यायेन सम्बध्यते । तेन पक्षेऽच् ।
४३. हिंसार्थानां च समानकर्मकाणाम् इति णमुलि लोष्टघातमिति
साधु । लोष्टैर्घातयित्वेत्यर्थः ।
१. लङ्घते परित्यजतीत्यर्थः ।