पृष्ठम्:शब्दापशब्दविवेकः.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१४ शब्दापशम्दविवेके


२८. यथाश्मप्लवेन१ तरन्नुदके निमज्जति तथाऽज्ञौ दातृप्रतीच्छका- विति मनुः सस्मार । २९. एको इतिहरिर्भवत्यपरो दृतिहारः । कस्तयोर्विशेषः । ३०. परिहर खलसम्पर्कम् । परिहर च बुद्धिविलुम्पकानि मादक- द्रव्याणि । ३१. क इमे सांराविणं कुर्वते? अयमारवो नः श्रवणशूलायते । ३२. सन्ततेन स्तन्यस्रावेण कृश्यति२ प्रजातेति३ स विरमणीयः । ३३. अदण्ड्यैवापराद्धानां विमुञ्चनं नानृशंस्यं४ भवति, नापि न्यायः । ३४. इमे खनीनां खन्तारोऽश्रान्तं श्रान्ता विश्रममर्हन्ति । ३५. प्राचि काले कन्यानामप्युपनायनमनुज्ञातमासीदिति केचित् । ३६. सुशिक्षको हि समूलकाषमुन्मूलयति दुराग्रहं दुरभिमानं च शिष्या - णाम् । २८. स्वच्छन्दवाचो महर्षय इति प्रतीच्छक इति स्मृतिकारप्रयोगो मान्यः । मानवे (४।१९४) प्रतीच्छक इति प्रयोगः । २९. हरतेर्दृतिनाथयोः पशाविति पशौ कर्तरि इन्प्रत्ययः । दृतिहरिः श्वा भवति । इतिहारस्तु उदहारः (पुरुषः) कर्मण्यण । ३०. बुद्धिविलुम्पकानि इति सावद्यम् । लुपेर्नुमोऽप्रसङ्गात् । तेन विलोपकानीति वाच्यम् । ३१. विभाषाऽऽङि रुप्लुवोरित्यब्घञौ भवतः । तस्मादारव आराव इत्युभयं साधु । ३२. स्तन्यस्रवेणेत्येव साधु । ऋदोरम् । ३३. विमोचनमित्येव साधु । नुमोऽप्रसङ्गात् । ३४. खनितार इत्येव साधु । खनु अवदारण इत्युदात्तोपदेशः । ३५. उपनयनम् इत्ये व साधु । आर्ष दीर्घत्वं वा कल्प्यम् । स्मृतिषु तथा प्रयोगात् । ३६. निमूलसमूलयोः कष इति कषेर्णमुल् । कषादिषु यथाविध्यनु- प्रयोग इति नियमात्समूलकाषं कषतीत्येव साधु । १. प्लवः कोल उडुपः, नौका । २. कृश तनूकरणे दिवादिः, प्रायेणाकर्मकः । ३. प्रजाता प्रसूता । ४. आनृशंस्यं कारुण्यम् ।