कृत्परिशेषाधिकारः २१३
२२. अवधत्स्व वत्स ! विस्तारेण ते कथयामि शकुन्तलोपाख्यानम् ।
२३. कृतमतिरिक्तेन कुसुमावचयेन । एतावन्येव पर्याप्स्यन्ति देवता-
र्चनाय ।
२४. वृद्धा मे नखाः । एतांश्चिकर्तिषामि । दीयतां मे स्वं नखनिकृन्त-
नम् ।
२५. वमिरुद्गिरणे वर्तते, वमति स्नेहमिति वामेत्यत्र तु मुख्यार्थस्य
निगरणं दृश्यते ।
२६. अस्ति मे पिप्रक्षा कस्यचिदर्थस्य । यद्यविरोधस्तर्हि प्रक्ष्यामि ।
२७. प्राड्विवाकः केवलं पृच्छको न भवति निर्णयं चापि वक्ति ।
योरेव घञ् । भावे तु ऋदोरप् इत्यबेव युज्यते । कवयस्तु बहुल-
माकुलं कुर्वन्ति । तत्राह वामन:-अवतरावचायशब्दयोर्व्यत्यासो
बालानाम् ।
२२. प्रथने वावशब्दे इत्यशब्दविषये प्रथने विधेः शब्दविषये तस्मि-
न्नप्-प्रत्यये विस्तर इत्येव साधु । अमरोप्याह-विस्तारो
विस्तृतिव्यसिः स तु शब्दस्य विस्तरः।
२३. हस्तादाने चेरस्तेये इति घञि अवचाय इत्येव साधु । हस्तादानेन
प्रत्यासत्तिरादेयस्य लक्ष्यते । अन्यत्र एरच् इत्यचि अवचय इति
साधु ।
२४. नखनिकर्तनमित्येवेति पाणिनीयाः । नखनिकृन्तनमिति प्रयोगस्तु
बहुलः कल्पसूत्रेषु ।
२५. उद्गिरणमिति धातुपाठेर्थनिर्देशात्साधु । निगरणमिति तु लोके
गुणे सति साधु ।
२६. पिपृच्छिषेत्येव निर्दुष्टम् । पृच्छेः सनि किरश्च पञ्चभ्य इतीटि
रुदविदमुषग्रहिस्वपिप्रच्छः संश्चेति सनः कित्त्वाद् ग्रहिज्यादिना
सूत्रेण सम्प्रसारणे अप्रत्ययात् इत्यकारे स्त्रियां टापि पिपृच्छि-
षेति रूपम् ।
२७. सम्प्रसारणस्याप्रसङ्गात् प्रच्छक इत्येव साधु ।