२१२ शब्दापशन्दविवेके
१४. कृतविद्याः१ कृतमतयो२ द्विजातयोऽपि मूढग्राहर्ग्रस्यन्ते मूढनिर्वि-
शेषम् ।
१५. प्रचौरोऽपि चोरतां यातो माण्डव्यो व्यवहारतः (याज्ञ०मिता०)।
१६. इदं क्षेमङ्करम् इदं च शिवङ्करमिति विवेक्तुं न सुकरम् ।
१७. कोऽत्र गायति ? किमपि मधुरमस्य गायनं कस्य मनो नावर्ज-
यति ।
१८. स्त्रियो बालाश्च परिक्रमां कुर्वन्ति देवतायतनानाम् ।
१६. सत्यात्मलम्भे सर्वग्रन्थीनां विभेदः ।
२०. पित्राऽऽम्रसिञ्चने नियुक्तः पुत्त्रः पितुराज्ञां यथेष्टं करोति,
आशिषश्च विन्दति ।
२१. मञ्जुला इमा: सहकारमञ्जर्यो वसन्तावतारं सूचयन्ति ।
१४. विभाषा ग्रहः (३।१।१४३) इति व्यवस्थितविभाषा । तेन जल-
चरे नित्यं णप्रत्यये कर्तरि ग्राह इति भवति ज्योतिषि तु ग्रह
एव ।। भावेऽकर्तरि च कारके ग्रहवृदृनिश्चिगमश्चेत्यपि ग्रह
इत्येव । तेन प्रकृते मूढग्रहैरित्येव साम्प्रतम् ।
१५. चोरयतीति चोरेः पचाद्यच् । चौर इति तु णे प्रत्यये तद्धिते ।
शीलमस्येति चौरः
१६. क्षेमप्रियमद्रऽण् चेति पक्षे खचि मुमागमे क्षेमंकरमिति साधु ।
शिवशब्दे कर्मण्युपपदे करोते: खचो विधिर्न शास्त्रे दृष्ट इत्यणि
शिवकार इत्येव साधु । शिवकर इति ताच्छील्ये टे वा छन्दसि तु
शिवशमरिष्टस्य करे इति तद्धितेन तातिला शिवतातिरिति भवति
१७. ल्युटि भावे गानमित्येव साधु । गायन इति तु गाथको भवति ।
ण्युट् चात्र प्रत्ययः।
१८. घञि परिक्रम इत्येव साधु । घञबन्त इति लिङ्गानुशासनेन
घञन्तं पुंसि नियतम् ।
१९. आत्मलाभ इत्येव निर्दुष्टम् । उपसर्गात्खल्घञो: (७।१।६७) इत्यु-
पसर्गादेव लभे: खल्घञो: परतो नुमागमो भवति, नान्यत्र ।
२०. आम्रसेचन इत्येव साधु । नुमोऽप्रसङ्गात् ।
२१. वसन्तावतरमित्येव साधु । अवे तस्त्रोघंञ् इति करणाधिकरण-१. आत्तविद्याः । २. संस्कृतबुद्धयः ।