कृत्परिशेषाधिकारः २११
८. अज्ञानामनात्मज्ञानां समुदय एष इति नायं समाजः समजस्त्वेषः ।
९. अनागसोऽपि स्त्रीजनस्य धनलुब्धैर्लुण्टाकैर्हत्या क्रियत इति परा
हि सीमा क्रौर्यस्य ।
१०. बाह्येन्द्रियोपरमे मनोमात्रे चानुपरते जायन्ते स्वप्नसन्दर्शनानि ।
११. बाणो नामासुरः किल लवणकारमभुक्त देवतोद्देश्यान् दलीन्
द्विजातीनाम् ।
१२. अधुनाऽपि केचिद् विधवापुनरुद्वाहे विप्रतिपन्नास्तेनानिष्टं
किमप्यपूर्वं भावीति पश्यन्ति ।
१३. इह भूयांस उदरम्भरिणोऽल्पीयांस एव परार्थघटकाः ।
८. समुदोरजः पशुषु इति पशुविषये धात्वर्थेऽप्प्रत्ययो विहितः ।
पशूनां समजो भवति मनुष्याणां तु समाजः । सम्पूर्वादजेर्घञ् ।
पशुकल्पानां मनुष्याणामपि समुदायोऽत्र पशुसमुदाय इवेत्युप-
चारात्समजशब्देनोच्यते । तस्मान्नात्र कश्चिद्दोषः ।
९. हनस्त च (३।१।१०८) इति सुप्यनुपसर्ग उपपदे क्यपं विधत्ते
न तु केवलाद् हन्तेः । तेन घात इति वक्तव्यम् । स्त्रीजनहत्येति
समासेन वा ।
१०. उपपूर्वाद्रमेघञ् उपराम इति युज्यते । नोदात्तोपदेशस्य मान्त-
स्यानाचमेरित्युदात्तोपदेशस्य मान्तस्याङ्गस्यात उपधाया वृद्धः
प्रतिषेध उक्तः । अनुदात्तोपदेशश्च रमिः । धातुपाठे यम उपरम
इति निर्देशात् साधु । आधुनिकोर्थनिर्देशो धातुपाठे नाचार्य्यकृत
इति मते त्वसाधुरेवोपरमशब्दः । संशोध्यो धातुपाठः ।
११. स्वादुमि रणमुल् इत्यत्र स्वादुमीत्यर्थग्रहणमित्युक्तं वृत्तौ । स्वादु-
सम्पन्नलवणादीनां च मकारान्तत्वं निपात्यत इति लवणंकार-
मित्येव युक्तम् ।
१२. भविष्यति गम्यादय इति णिनौ भावीति निरवद्यं रूपम् । प्रयो-
गस्तु दुष्यति । इतिशब्दो हि दूषकः । न हि भाविशब्दो भविता,
भविष्यतीत्येतयोः स्थाने शक्य: प्रयोक्तुम् ।
१३. फलेग्रहिरात्मम्भरिश्च (३।२।२६) इत्यत्रानुक्तसमुच्चयार्थश्चकार
इत्युक्तम् । तेन कुक्षिम्भरिरुदरम्भरिरित्यादयः सिध्यन्ति । अत्र
मुमागम इन्प्रत्ययश्च निपात्यते । तेनोदरम्भरय इत्येव रूपम् ।