२१० शब्दापशम्दविवेके
३०. पुत्त्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः ।
रिपुस्थानेषु वर्तन्तः कर्त्तव्या भूतिमिच्छता ।।
३०. कृती छेदने सेट् । सादिप्रत्यय एव विकल्पः । तेन कर्तितव्या
इत्येव रूपम् ।
इति कृत्सु कृत्यविवेचनम् ।
कृत्परिशेषाधिकारः षष्ठः।
१. शोभते ते वयस्यानामतिशयनं गुणैः । मत्सर एव तु परिहार्यः ।
२. मांसमेवोपचिनोति मांसादो न तु बुद्धिमिति वैद्याः ।
३. उदतिष्ठत्स वेगेन क्रोधेन प्रज्वलन्निव । उद्धृत्य सहसा नेत्रे
दन्तान् कटकटाय्य च ।। (रा०)
४. अहिंसयैव वार्या आक्रन्तारः शत्रव इति श्रीगान्धी स्माह ।
५. शास्तुरन्यायशीलस्य शासनं न समादरमर्हति ।
६. उपांशु१ मन्त्रजापस्ते यथा हितो न तथोच्चैरुच्चारणम् ।
७. अयं प्रमदजः२ प्रमाद इति जानन्मर्षये।
१. अतिशायने तमबिष्ठनावित्यत्रातिशायनमिति निपातितम् । बाधकान्येव निपातनानि भवन्तीत्यतिशायनमेव साधु । २. अदोऽनन्न इति विटि मांसाद् इत्येव साघु । ३. कृभ्वस्तियोगे एव डाचो गतिसंज्ञाविधानादिह (कटकटाय्येत्यत्र) तदभावात् क्त्वो ल्यबादेशो दुर्लभः । ४. क्रमेराङ् पूर्वात् तृचि प्राक्रमितार इत्येव साधु । उदात्तः क्रमिः । ५. शासु अनुशिष्टावित्युदात्त: परस्मैभाषः । तेन तृचि शासि- तुरित्येव साधु । बुद्धनामधेये शास्तृशब्दं प्रयुञ्जते बौद्धा वाचं च व्याकुलयन्ति । ६. व्यधजपोरनुपसर्गे इत्यपि प्रत्यये जप इत्येव साधु । उपसर्गे तु घत्रि उपजाप इति भवति । ७. प्रमदसमदौ हर्ष इति प्रमदशब्दो हर्षवचनो निपातितः ।१. रहसि । २ हर्षजः।