कृत्याधिकारः २०९
२०. देवनागरी यवनानी चेति द्वे अपि लिपी अभ्यस्तव्ये।
२१. उत्तरापथे प्रचरतिाः सर्वा भाषाः संस्कृतवाच एवोपजीव्याः ।
२२. यत्नेन लभनीयाऽऽत्मसंवित्तिः ।
२३. मार्गेणारभणीयानि कार्याणि नामार्गेण ।
२४. विभूतिमन्तोऽपि खला नोपसर्प्या:, तत्र गुणीभावोऽपि लाघवाय ।
२५. सत्यपि प्रतिबन्धके यस्य वस्त्वन्तरस्य सद्भावेन प्रतिबध्यस्य
कार्यस्य पुनरुत्पत्तिर्भवत्येव तदुत्तेजक मुत्तम्भकं वेति नैयायिका: ।
२६. न खल्वभ्युदये हर्षणीयं जनेन न च विषादनीयमापदि ।
२७. शस्त्रं विषं सुरा चाप्रतिगृह्याणि ब्राह्मणस्य (वसिष्ठ ध० सू०
२३।५५) ।
२८. यूपो निखातव्य उच्छ यणीयश्चेति द्वे अप्यङ्गे पश्वालम्भविधेः ।
२९. अन्विष्यमार्गा वसुधा भाति शाद्वलमालिनी (हरि० २।१०।१७) ।
२०. अभ्यसितव्ये इत्येव साधु । इटो दुर्वारत्वात् ।
२१ सर्वासां भाषाणां संस्कृतवागेवोपजीव्येत्येवं न्यास: कार्यः । अन्य-
थान्यासो हि विरुद्धमतिकृत् ।
२२. लभेश्चेति नुमि लभ्भनीयेति साधु ।
२३. रभेरशब्लिटोरिति नुमि आरम्भरणीयानीत्येव रूपम् ।
२४. ऋदुपधाच्चाक्लृपिचृतेरिति ऋदुपधत्वात्क्यपि उपसृप्या इति
वक्तव्यम् ।
२५. प्रतिबन्ध्यस्येत्येव साधु । नलोपाप्राप्तेः ।
२६. विषदनीयम् इत्येव रूपम् । णिचा नार्थः ।
२७. अप्रतिग्राह्याणीत्येव साधु । ऋहलोर्ण्यति सम्प्रसारणाप्रसङ्गात् ।
क्यपोऽविधेश्च ।
२८. निखनितव्य इत्येव व्यवहार्यम् । जनसनखनां सञ्झलोः (६।४।
४२) इत्यनेनात्वस्याप्राप्तेः । खनु अवदारण इत्युदात्तः । तेन
तव्ये इटि झलादित्वं नश्यति । झलादिरपि किन्ङिद्वेष्यते, न
हि तव्य: किद् वा भवति ङिद्वा, अन्यत्रोद्विजेरिडादितव्यात्,
कुटादेश्च । तस्मादात्वस्य सर्वथाऽप्रसङ्गः ।
२९. 'अन्वेष्यमार्गा' इत्येवं साधूकरणीयम् । ण्यति प्रत्यये गुणस्य
दुर्वारत्वात् ।