२०८ शब्दापशब्दविवेके
१२. ब्रह्मचर्या ह्युत्तमं व्रतं व्रतानाम् । अविलुप्तब्रह्मचर्या एव गृहस्था-
श्रमं प्रवेष्टुमर्हन्ति नेतरे ।
१३. ग्रन्थाक्षरार्थे न संशय्यम् । यथास्थितमर्थोऽभ्युपेय इति केचि-
च्छद्धाजडा अमीमांसकाः ।
१४. चिरन्तनाः सखाय इति न ते विषमे विस्मर्याः । कर्तव्यमेव
साचिव्यं१ यावच्छक्यम् ।
१५. सर्वा विद्या अभ्यस्या भवन्ति, व्याकरणं तु सविशेषम् ।
१६. अतिसुकुमारेण कुमारेण नाहोरात्रमुपोषितव्यम्२ ।
१७. शिष्यशिष्टिरवधेन । अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ।
अन्येन घ्नन् राज्ञा शास्यः (गौ० ध० १।२।४८-५०) ।
१८. अभिनवाः काश्चित्कलिकाः प्रातरुद्यानादानीयाः ।
१९. येयं साम्प्रतं प्रचरति भारते शिक्षा न सा शिक्षापदाभिलप्या
भवति ।
१२. ब्रह्मरणश्चर्या ब्रह्मचर्या । अस्त्ययं प्रयोग इत्यभिधानकृतः । रूप-
सिद्धौ तु न किञ्चिद् दुरुपपादमस्ति । कृत्यल्युटो बहुलमिति भावे
कृत्यो यत् । यथा शाकुन्तले--का त्वं विस्रष्टव्यस्य विरोद्धव्यस्य
वेत्यत्र भावे तव्यः । ततः स्त्रीत्वविवक्षायां टाप् ।
१३. अचो यद् इति यति संशेयमित्येव साधु । अयङो यादौ किति
विधानात् ।
१५. ऋहलोर्ण्यत् इति ण्यति विस्मार्या इत्येव साघु ।
१५. ऋहलोर्ण्यत् इति ण्यति उपधावृद्धौ, अभ्यास्या इत्येव ।
१६. उपवस्तव्यमिति 'रूपम् । वसेर्निष्ठायामिडागमस्य विधानात्
तत्रैव च सम्प्रसारणप्रसङ्गात् । उपपूर्वादुषे रूपमिति चेन्न । उष
दाह इत्यस्य सकर्मकत्वात् । उष्णादिशब्देषु तथा दर्शनात् ।
बाढम् उपोषणमुपवासो भवति । आत्मनो दाह इव तदभवतीति
कृत्वा । उपोषत्युपवसतीत्येतयोस्तु पर्यायत्वातङ्गीकारः ।
१७. शास्य इति स्वार्थे णिचि यति समाधेयम् । प्रकृतेः केवलायास्तु
क्यपि शिष्य इति स्यात् ।
१८. गुणे सत्यानेया इत्येव साधु ।
१९. ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्याण्ण्यति अभिलाप्येति
साधु स्यात् ।१. साहाय्यम् । २. उपवास: कार्यः।