२०७
३. परोपकारप्रियोऽप्यसावनृतिक इति नापलप्यम्१ ।
४. जाने दुष्करमिदं कृत्यं तथापि मया तत्र प्रवर्त्यम् । एषा मे व्यव-
सिता मनीषा ।
५. उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः ।
६. नेदमुश्मो२ व्याकरणाधीत्यामेव शश्वद्रतः स्या: । विषयान्तरा-
ण्यपि ते समारत्यानि ।
७. इदमभ्युपेयं भवति न खलु दैवानुग्रहाते सिध्यन्ति कर्माणि यत्ना-
रब्धान्यपि।
८. प्रभूताः स्वा न दीयन्त इत्याभणन्ति । सत्यं दुःखजिताः श्रियः
सुदेया न भवन्ति ।
९. संमानाद्विषादिवोद्विजितव्यं द्विजेन ।
१०. अयं मे प्रियतम: शिष्य इति विषमे वृत्त्युपायं साध्वनुशास्यः ।
११. यो राजा लोभमोहेन किञ्चित्कुर्यादसाम्प्रतम् । सर्वोपायनियम्यः
स यथा पापान्निवर्तते ।।
३. ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्याण्ण्यति अपलाप्यमित्येव
साधु ।
४. ऋदुपधाच्चाक्लृपिचृतेरिति क्यपि प्रवृत्यमित्येव शोभनम् ।
५. गदमदचरयमश्चानुपसर्गे इत्यनुपसर्गाच्चरेर्य द्विधेः सोपसर्गाण्ण्य-
देव । तेन उपचार्य इतीष्यते ।
६. एतिस्तुशास्वृदृजुषः क्यप् इति क्यपि समादृत्यानीति साधु ।
७. अभ्युपेयमिति साधु । एरेतद्र पं नेणः । तेन क्यन्न ।
८. आतो युच् इति युचि सुदाना इति स्यात् । दाञोऽचो यति देया
इति सिद्धे तस्य सुशब्देन प्रादिसमासे सुदेया इति साधु
९. विज इडिति इडादिप्रत्ययस्य विभावे गुणाभावे उद्विजि-
तव्यमिति साधु ।
१०. एतिस्तुशास् इत्यादिना क्यपि शास इदङ्हलोरित्युपधाया इत्त्वे
शासिवसिघसोनामिति षत्वेऽनुशिष्य इत्येव साधु ।
११. तेन तत्र भवेदिनियम्यमिति वार्तिकप्रयोगान्नियम्य इति साधु ।१. अपलापं नार्हति । २. वश कान्तौ । कान्तिरभिलाषः । छन्दसोऽन्यत्रापि
वशेः प्रयोगोऽभ्यनुज्ञायत इत्येकीयं मतम् ।