२०६ शब्दापशब्दविवेके
९. अयि पठका: पाठकाश्च ! तांस्तान् विषयान्विशदयन्ती चिरं
चकासन्तीयं पत्रिका भवद्भ्यो रोचते न वेति व्यक्तमुद्यताम्१ ।
१०. मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात् स्था-
नादस्मि ।
११. ये वागन्तरे भूयः श्राम्यन्ति संस्कृते चाल्पीयस्ते नाञ्जसा२ तद्
बोद्धुमीशाना३ भवन्ति ।
१२. धनिककुलानि धर्मार्थे धनानि ददन्त्येव शोभन्ते वर्षासु स्यन्द-
मानानि जलधरपटलानीव ।
१३. प्रातःस्मरणीयः श्रीचित्तरञ्जनदासो देशं वरिवस्यमानो४ नात्मनः
क्लेशमजीगणत् ।
१४. हन्तीति पलायत इत्यत्र लक्षणहेत्वोः क्रियाया इत्यनेन हेतौ शता
कुतो न ?
९. चकासृ दीप्तावित्यदादिः । चकासतीत्येव साधु । नुमोऽप्राप्तेः ।
१०. क्वचित्प्रथमान्तेन सामानाधिकरण्येऽपि शतृशानचौ भवत इति
वृत्तावुक्तेरिदं साधु ।
११. ईशा ईश्वरा भवन्तीति युज्यते वक्तुम् । ईशत इति वा प्रयो-
ज्यम् ।
१२. वा नपुंसकस्येति विकल्पेन नुमि ददति, ददन्तीत्युभयं साधु ।
१३. वरिवस्यन् इत्येव साधु । क्यच्प्रत्ययान्तो वरिवस्यतिः । नमो-
वरिवश्चित्रङ: क्यच् इति क्यच् । तेनात्मनेपदनिमित्ताभावाच्छे-
षात्कर्तरि परस्मैपदमिति परस्मैपदम् ।
१४. हेतुभावस्येतिना द्योतितत्वाद् हन्तेः शता न ।
इति शतृशानचोविवेचनम् ।
कृत्याधिकारः पञ्चमः ।
१. न तज्जानामि लोकेस्मिन्नयेनाजय्यमेव यत्
२. अयं हिन्दीवाग्गुम्फः संस्कृतेनानूदितव्यः ।
१. क्षय्यजय्यौ शक्यार्थे इति निपातनाज्जय्यमिति साधु ।
२. अनुवदितव्य इत्येव । सम्प्रसारणस्याप्रसक्तेः ।
१. उच्यताम् । २. अञ्जसा तत्त्वत्तः । ३. ईशेः कर्तरि लट: शानच् ।
४. सेवमानः ।