२०५ शतृशानचोरधिकारश्चतुर्थः ।
१. अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् (रा० २।२७।७) ।
२. शास्त्राण्यधीत्यापि वृद्धानुपासमानाः कल्याणपरम्परां लभन्ते ।
३. अम्बा त्वपराधशतमपि कुर्वन्ती न न मान्या सुतानाम् ।
४. परवत्तया१ परयाऽवसीदन्त्यो लोहभस्त्रा इवोच्छ्वसन्त्य आर्य-
ललना: कथं कथमपि कालमनयन् ।
५. ततः प्रविशति कामयानावस्थः सवयस्यो राजा (शा०) ।
६. अधन्यः स पुरुषो यः सुखसंभारमवाप्नुवानोऽपि परमेश्वरं न स्म-
रति ।
७. शूद्रादिषु शास्त्राण्यधीयमानेषु द्विजातयो मानाद् हास्यन्त इति
केचिदाशङ्कन्ते ।
८. इदानीं वासवो वर्षन्नस्तीति न वयं विहाराय निर्गन्तुमीशाः ।
१. मृद्नतीत्येवेति पाणिनीयाः । नुमोऽप्राप्तेः ।
२. ईदासः (७।२।८३) इत्यानस्य ईकारादेशो विधीयते । स च आदेः
परस्येत्याकारस्य स्थाने भवति । तेनोपासीना इत्येव साधु । मुगा-
गमस्य तु प्राप्तिरेव न ।
३. कुर्वतीत्येव साधु । नुमोऽप्राप्तेः ।
४. उच्छ्वसत्य इत्येव साधु । अवर्णान्तादङ्गात्परः शतुरवयवो
नास्तीति नुमोऽप्राप्तेः। अवसीदन्त्य इति भौवादिकस्य, अव-
सीदन्त्यः, अवसीदत्य इति च तौदादिकस्य । आच्छीनद्योर्नुम्
इति विकल्पात् ।
५. कामयान इत्यनित्यमागमशास्त्रमिति मुकोऽभावेऽपि निरवद्यम् ।
मुकि कामयमान इति च भवति । प्रायेणायं मुगभावश्चौरादिकेषु
धातुषु दृष्टः।
६. आप्लृ व्याप्ताविति परस्मैपदी। तेनाप्नुवन्नित्येव साधु । शान-
चोऽप्रसङ्गात् । न च चानश् कल्प्यतामिति वाच्यम् । तस्य ताच्छी-
ल्यवयोवचनशक्तिषु विधानात् ।
७. अधीयानेष्वित्येव । आने मुक् इत्यस्य प्रवृत्त्यसम्भवात् ।
८. वर्षतीत्येव सूत्रानुसारि । अप्रथमासमानाधिकरण इत्युक्तेः । व्यव-
हारानुपाति च । कविप्रयोगेषु तादृशस्य विन्यासस्य दौर्लभ्यात् ।१.पराधीनतया।