पृष्ठम्:शब्दापशब्दविवेकः.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्तक्तिनोरधिकार: २०३


१७. अद्यत्वे कामपि जागतिंं लक्षयामहे विवर्णेषु । १८. यदि शब्दाह्वयं ज्योतिर्न दीप्येत तदाऽयं लोकोऽन्धेन तामिस्रेण ग्रसितः स्यात् । १९. आसन्नास्तमनवेलेति सलिलमवगाहितो मुनिजन: । २०. पूर्वं कृशोपि सम्प्रत्यापीन इव लक्ष्यते देवदत्तः । २१. मन्येऽनुकरोत्यस्य मन्युः क्षुब्धमकूपारम् । २२. कपोलकण्डूतिं विनेतुं विघट्टयन्ति द्रुमस्कन्धान् कुम्भिनः१ । २३. इह केन निमित्तेनैकत्रिता जनाः । अप्यत्र कश्चिदनिष्टो व्यति- करोऽभूत् । २४. पित्रा वितरितां महतीं विभूतिमसदर्थेषु विनियुज्य क्षपयत्यद्रव्यं२ सुतः। १७. जागर्तेरकारो वेति जागरा जागर्या चेति रूपद्वयमेव साधु । क्तिनोऽपवाद एष विधिः । जागर्तिरिति क्तिचि कथंचिद् व्युत्पा- द्यम् । प्रयोगस्तु जागर्तेः सुदुर्लभः । १८. ग्रसु अदने । यस्य विभाषेति निष्ठायामिण्निषेधाद् ग्रस्त इत्येव साधु । १९. गाहू विलोडने ऊदित् । यस्य विभाषेति इट: प्रतिषेधे अवगाढ इत्येव रूपम् । कर्तरि क्तः । २०. 'प्यायः पी' इति व्यवस्थितविभाषा । तेनानुपसर्गस्य नित्यं 'पी' भवति । सोपसर्गस्य तु नैव भवति प्रप्यानः । तेन प्रकृते पीन इत्येव साधु । आङ्पूर्वस्यान्धूधसोस्तु स्यादेव-आपीनोऽन्धुः । आपीनमूधः । पूर्वत्रापीन इत्यन्धौ कूपे पुमान् । २१. क्षुब्धस्वान्तध्वान्तेत्यादिना सूत्रेणेडभावो मन्थेऽर्थे निपातितः । प्रकृते क्षुभितमित्येव साधु । बहुलं प्रचरत्ययमपशब्द इत्यत्र जाग- रितव्यम् । २२. कण्डूतिरिति कण्डूयतेः क्तिचि रूपं ज्ञेयम् । २३. एकत्रिता इति दुःसाधं कृता वा तद्धितेन वा। तत्करोति तदा- चष्टे इति णिचि क्ते प्रत्यये सिध्यतीति चेन्न । तदित्यनेन कर्म प्रत्यवमृश्यते नाधिकरणमिति णिज् दुर्लभः । २४. विस्तीर्णामित्येव साधु । श्र्युक: कितीतीनिषेधः । १. हस्तिनः । २. द्रव्यं भव्य इति निपातितम् । व्यमिति गुणक्रियाधिकरण- मिति परिभाषितम् । तत्साम्यावन्योऽपि गुणवानाध्यमित्युच्यते ।