पृष्ठम्:शब्दापशब्दविवेकः.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०२ शब्दापशन्दविवेके


८. जागृतोऽहमात्मनि ब्रह्मणि । नहीदानीं विडम्बयितुमर्हति मां माया वराकी । ९. प्रथमोऽपराध इति मृषितो गुरुणा । तेन द्वितीयं मास्म चारीः । १०. वर्तितं पारायणं छन्दसां देवदत्तेन । इदानीं पाणिनीयाष्टकं प्रपठति । ११. तन्त्रके१ असीविते वाससी वसित्वा यज्ञवेद्यामासीदेत् । १२. नवेन तेन नृपेण नूतनानि दुर्गाणि कृतानि खानिताश्च परिखाः । १३. नदीमातृको देशः, धार्मिकश्च नृपतिस्तथापि दरिद्राणा: प्रजा इत्याश्चर्यम् । १४. संशातव्रतो हि तिग्मतपा भवतीति केचित्, चीर्णव्रत इत्यपरे । १५. नूनं धृष्टोऽसि यदर्थविधुरं बहु विप्रलप्तं त्वया । १६. यतितं मया चिराय व्याकरणमवगन्तुं न च पारितम् । तत्र मे प्रज्ञापराधो न शास्त्रापराधः । ८. जाग्रोऽविचिणणल्ङित्सु इति गुणे जागरित इत्येव साधु । ९. मृषस्तितिक्षायामिति निष्ठायां कित्त्वनिषेधे गुणे मर्षित इति साधु । १० णेरध्ययने वृत्तमिति वृतेनिष्ठायामध्ययनेऽर्थे इडभावो णिलुक् च निपातितौ । तेन वृत्तमिति साधु । ११. षिवु तन्तुसन्ताने निष्ठायां च्छ्वोः शूडनुनासिके चेति वकारस्योठि यस्य विभाषेति इण्निषेधे अस्यूते इत्येव साधु । १२. खानिता इति णिचि क्ते साधु । १३. दरिद्रिता इत्येव साधु । आर्धधातुके विवक्षित एवालोपस्य विधानात् । दरिद्राणमित्यपशब्दः । १४. शाच्छोरन्यतरस्यामिति तकारादौ किति इकारादेशो वा भवति शितम् । शातम् । निशातम् । श्यतेरित्त्वं व्रते नित्यमिति वक्तव्यम् इति संशितव्रत इत्येव साधु । चीर्णमिति भारतादिषु बहुलं प्रयुक्तमप्यपाणिनीयम् । चरितमित्येव तु पाणिनीयम् । १५. धृषिशसी वैयात्य इतीडभावे धृष्ट इति साधु । लप व्यक्तायां वाचीति नित्यं सेट् । तेन विप्रलपितमित्येव साधु १६. यती प्रयत्न इति धातुः । श्वीदितो निष्ठायामितीण्निषेधाद् यत्तमित्येव साधु ।१. तन्त्रादचिरापहृते नूतने इत्यर्थः ।