२०१
क्तक्तिनोरधिकारस्तृतीयः ।
१. घुष्टा मया देवपादानामाज्ञप्तिः । अनन्तरकरणीयं वेदितु-
मिच्छामि ।
२. हृष्टपुष्टो देवदत्तो लक्ष्यते । मन्ये व्यपगतमस्यार्थकृच्छ्रेण ।
३. को नु खल्वत्युदारोऽपि१ मुष्टं स्वमर्थं दस्युना प्रतिग्राहयेदन्यत्र२
संमूढात्२ ।
४. अहह ! क्रूरेण लुण्टाकेनादयं विशस्तो' वराको धनिकः ।
५. अहिंसानिष्ठामवाप्नोति प्रयतात्मा पुनीतधीः ।
६. अयं नो देशो वैदेशिकैर्वाणिजैर्दरिद्रितः ।
७. धनधान्यस्य च स्फीतिः सदा मे वर्ततां गृहे ।
१. घुषिरशब्दार्थे । घुषिर् विशब्दने इति धातू । घुषिरविशब्दने
(७।२।३३) इति विशब्दनादन्यत्र निष्ठायामिण्न यथा घुष्टा
रज्जुरित्यत्र । प्रकृते विशब्दनं शब्देनाभिप्रायाविष्करणमिति
घुषितेत्येव साधु ।
२. हृषितपुष्ट इति तु युज्यते । उक्तं च हृषेर्लोमसु (७।२।२९) इति
सूत्रे वृत्तौ-हृष्टो देवदत्त इत्यलीकार्थस्य, हृषितो देवदत्त इति
तुष्ट्यर्थस्येति ।
३. मुषितमित्येव युक्तम् । इड् दुर्वारः ।
४. धृषिशसी वैयात्य इति वैयत्य एव निष्ठायामिण्निषेधः । प्रकृते
तु निसूदित इत्यर्थः । तस्माद् विशसित इति वक्तव्यम् । शसु हिंसा-
यामिति धातुर्वैयात्येऽपि वर्तते विपूर्वः, अनेकार्थत्वाद्धातूनाम् ।
५. पूतधीरित्येव । निष्ठायां श्नाविकरणस्य कः प्रसङ्गः ।
६. दरिद्रातेरार्धधातुके विवक्षिते पालोपो वाच्य इति वार्तिकेन
विवक्षित एव णिचि दरिद्रातरालोपे क्तप्रत्यये इटि च दरिद्रित
इत्येव । तेन प्रकृते न कश्चिद्दोषः । दरिदातेरकर्मकत्वादन्त-
र्णीतण्यर्थकः प्रयोगो वेद्यः । प्रातिपदिकाद् दरिद्राद् धात्वर्थे
णिचि क्ते वा रूपं बोध्यम् ।
७. स्फायः स्फी निष्ठायामिति निष्ठायां स्फीभाव उक्तः क्तिनि
न प्राप्नोतीति स्फातिरित्येव साधु ।