२०० शब्दापशन्दविवेके
३७. न्यायानुसारिणं दोषा आक्रामन्तीति का कथा ।
दूरस्थिता एव दोषास्तं स्प्रष्टुमपि बिभ्यति ।
३८. पुत्रस्य पठितुमिच्छति पिता, न चासौ मन्दः पठति किंचित् ।
३९. अहो हर्षः कियानस्या द्रष्टुं मां पुनरागतम् ।
४०. शक्तिरस्ति कस्यचिद् विदेहराजस्यच्छायामप्यवस्कन्दितुं किमङ्ग
जामातरम् (महावीर० ३)।
४१. न हि वारिराशिं चुलुकितुमर्हेन्मोऽगस्त्यादृते ।
४२. जहातुकामोस्मि समस्तमेतत् (मोह० ७।३१) ।
३७. तं स्प्रष्टुमपि बिभ्यतीत्यपनीय तत्स्थाने तत्स्पर्शादपि बिभ्यती- त्येवं न्यास्यम् । अविषयस्तुमुन इति । ३८. पुत्त्रस्येति कर्तरि षष्ठी । सा प्रथमया विपरिणमनीया । तुमुनमपनीय लिङ् वा लोड् वा प्रयोज्यः । पुत्त्र: पठेत् पठतु वेतीच्छति पितेत्येवं वक्तव्यम् । एषणक्रियायाः कर्ता पिता,पठन- क्रियायाश्च पुत्त्र इति कर्तृभेदात् तुमुन् दुर्लभः । ३९. द्रष्टुमित्यस्य स्थाने दृष्ट्वेति वक्तव्यम् । स्थिताया इति चाध्या- हर्तव्यम् । ४०. स्कन्देरनिट्त्वात् स्कन्तुमित्येव साधु । कस्यचिच्छक्तिरिति कश्चिच्छक्त इत्यर्थपरो वाक्यखण्डः । तेन शक्नोतिरत्रोपपदम- स्तीति शकधृषेति सूत्रेण तुमुन्सुवचः । ४१. चुलुकितुम् इत्यसाधु । प्रातिपदिकाद् धात्वर्थे बहुलम्, तत्करोति तदाचष्ट इति णिच् प्रयोज्यः, चुलुकयितुमित्येवैषणीयम् । ४२. जहातुकाम इत्यत्यन्तमपभ्रष्टम् । तुमुनि को नाम श्लुप्रसङ्गः । श्लावसति च कुतो द्वित्वम् । हातुकाम इत्येव शब्दः इति तुमुन्विवेचनम् ।