तुमुन्नधिकार: १९९
२९. स्त्रीपरिभवं सोढुं दाक्षिणात्या न शिक्षिताः (बाल रा० १।३) ।
३०. यत्सर्वात्मना चेष्टमानोऽपि भुजङ्गो नोत्थितुं प्रभवति स प्रभावो
मन्त्रस्य ।
३१. प्रतिवेशिनो मां गृहं त्यक्तुं विवशमकुर्वन् ।
३२. न हि पुस्तकभारवहनेन परीक्षापयोधिसन्तरणेनैव वा कश्चि-
च्छास्त्रेषु व्युत्पन्नो बोभोतुमीष्टे ।
३३. महार्घतापिशाची मुखं व्यादाय निगलितुमिव धावति ।
३४. इत्युक्त्वा सोऽचेष्टत कथंचित्स्मयितुम् ।
३५. तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीचछुचिस्मिते (भा० आदि०
८३।६)।
३६. कश्चित्स्वस्याभिमतं मतमेवावलम्बितुमागृह्णाति परान् ।
२९. यदि शिक्षिता इति शिक्षेर्णिचि निष्ठायां रूपं तदा भिन्नकर्तृक-
त्वं दोषः । अन्यथा शिक्षिता इति कर्तरि क्तो व्याख्येयः ।
अस्तीह वामनसूत्रं व्यवसितादिषु क्तः कर्तरि चकारादिति ।
तथापि तुमुन् केनेति चिन्त्यम् । स्त्रीपरिभवसहनं न शिक्षिता
इति दोषलेशैरस्पृष्टं वचः । वस्तुतो यत्र तत्राकुलितः कविभिस्तु-
मुनः प्रयोगः।
३०. उत्थातुमित्येव साधु ।
३१. अत्रापि भिन्नकर्तृकत्वमिति तुमुन्दुर्लभः । गृहत्यागे इति
वक्तव्यम् ।
३२. भूरूदन्त इति सेट् । इण्निषेधाप्राप्तेर्बोभवितुमित्येव साधु ।
३३. गृ निगरण इति धातुः। तुमुनि गुणे लत्वे च पाक्षिक इटो
दीर्घत्वे च निगलितुम्, निगलीतुमिति च रूपद्वयम् ।
३४. स्मेतुमित्येव । ष्मिङ् ईषद्धसने इति नित्यानिट् ।
३५. सम्प्रश्ने मम शक्तिर्नासीदित्येव साधुर्न्यास: । पाणिनीयास्त्वत्र
तुमुनं न सहन्ते ।
३६. अत्र बहु दूष्यम् । आङ्पूर्वो ग्रहिस्तिङन्तोऽभिनिवेशे हठात्प्रेरणे
वा न दृष्टचरः। कृदन्त आग्रहशब्दोऽभिनिवेशं वक्ति नाम ।
तुमुंश्चास्थाने । कर्तृभेदात् । स्वमतावलम्बनाय मां हठात्प्रेरयती-
त्येवं वक्तव्यम्