१९८ शब्दापशब्दविवेके
१९. न हि दुर्बलो बलीयांसं दुश्चरितात्प्रतिषेद्धुं प्रभवति ।
२०. इदं दोषजातमपास्तुं यतस्व, अन्यथा समुत्कर्षः सुदुर्लभः ।
२१. अनुजानीहि मां गन्तुम् । चिरं मे प्रोषितस्य ।
२२. चतस्रो विद्या अर्थकर्य इति गणितुं शक्यन्ते ।
२३. अहो बत१ व्यवहारपतितान् सम्प्रतीतानपि शब्दान् यथावल्लि-
खितुं न जानासि ।
२४. अहो धृष्टोऽसि । सभां प्रवेष्टुं प्रतिषिद्धोऽपि न विरमसि ।
२५. भवदात्मजोऽस्मच्छिष्यो रमेशः परीक्षां साधीय उत्तीर्ण इति
निवेदयितुमलं तुष्यामः ।
२६. न मया शक्ष्यते रहस्यमिदं चिरं गोपयितुम् ।
२७. सभापतयः प्रधानवक्तृभ्यो भाषणमारब्धुं न्यवेदयन् ।
२८. इदानीमयुक्तं विक्रोशितुम् । धैर्यं धेहि। नष्टं नानुशोचन्ति
पण्डिताः ।
१९. षिध गत्यां भौवादिकः सेट्कः । तस्य तुमुनि प्रतिषेधितुमित्येव
रूपम् । षिधू शास्त्रे माङ्गल्ये चेत्यपि भौवादिकः । ऊदित्त्वादयं
वेट् । अस्मात् तुमुनि इडभावपक्षे, प्रतिषेद्धुमिति रूपम् ।
निषेधः प्रतिषेधो विप्रतिषेध इत्यादिषु सेधतिरेव धातुर्न सिध्यतिः ।
मूर्धन्यविधौ सेधतेरेव भौवादिकस्य ग्रहणात् । सकर्मकत्वे
देवादिकत्वायोगाच्च ।
२०. असु क्षेपणे इति दिवादि: सेट् । तेनापासितुमित्येव शोभनम् ।
२१. अनुजानीहि मां गमनायेत्येव साधु । उक्तो हेतुः ।
२२. गणयितुमित्येव । नित्योऽत्र णिच् ।
२३. लिखिः कुटादिरिति मास्म भ्रमीः। तेन गुणे लेखितुमिति ब्रूहि ।
२४. सभाप्रवेशात् प्रतिषिद्ध इत्येवं न्यसनीयम् ।
२५ तुष्याम इति क्रियार्था क्रिया नेति तुमुण्वुलाविति सूत्रेण तुमुन्
दुर्लभः । तेन निवेदनेन निवेदयन्तो निवेद्येति वा यथाभिप्रेतं वक्तव्यम्
२६. गुपू रक्षण इति धातुः । गुपूधूपविच्छिपरिणपनिभ्य आय
इत्यायप्रत्यये गोपायितुमिति रूपम् । आयादय आर्धधातुके वेति
पक्ष आयप्रत्ययेऽसति ऊदित्त्वाद् इड्विकल्पे गोपितु गोप्तुमिति च ।
२७. भाषणमारभ्यतामिति वक्तव्यम् ।
२८. क्रुश आह्वाने रोदने चेति धातुरनुदात्तः । तेन विक्रोष्टुमिति रूपम्१. बतेति खेदेऽनुकम्पायां वा ।