क्त्वाधिकारः १९५
३१. अनिष्टकरमवैदिकं मतं प्रचारयित्वा किं लप्स्यते ?
३२. केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तमिति केशाकेशि ।
३३. एवं हरिमुद्गीय सा सभा तूष्णीमभूत् ।
३४. धन्यास्ते सुमतयो येऽन्योन्यस्मिन्प्रीतिं संजन्य वैमत्यमपाकुर्वन्ति ।
३५. कवी राजानमुपश्लोकयित्वा१ पुष्कलं धनराशिं विन्दति ।
३६. तास्ताः क्रियाः समनुष्ठीयाऽऽत्मानं च सम्यग्विनीय दैवीं सम्पदं
सम्पादयेत् ।
३७. प्रीणय्य सूनृतैर्वाक्यैः स्वदेशान्प्रत्ययापयत् (भा०पु० १०।७३।२८)।
३८. कूपिकाभित्तिकोटर आत्मानं निगृह्य स्थितः ।
३९. एवमन्येऽप्यभ्यूहितव्याः । अभ्यूह्य च एवमर्थसामान्येन निर्वक्त-
व्याः (नि० २।१।४ दुर्गवृत्तौ)।
टिलोपे इटि गुणे विशदयित्वेति साधु स्यात् । एवं विशदं
कृत्वेत्यभीष्टार्थलाभश्च स्यात् । विशदमवदातम् ।
३१. प्रचार्य्येत्येव साधु ।
३२. अत्रापि स्थितयोः स्थितानां वेत्यध्याहार्यम् ।
३३. न ल्यपीतीत्त्वनिषेधाद् उद्गायेत्येव साधु ।
३४. संजनय्येत्येव साधु । णिचि जनिवध्योश्चेति वृद्ध्यभावाल्ल्यपि
लघुपूर्वादित्यस्य प्रवृत्तेर् णेरयादेशः ।
३५. श्लोकरुपस्तौतीत्युपश्लोकयति । समासेऽनपूर्वे क्त्वो ल्यप् इति
उपश्लोक्येति साधु ।
३६. न ल्यपीतीत्वनिषेधात्समनुष्ठायेति साधु ।
३७. धूञप्रीञोर्नुक् इति गौ नुग्विधेरिटि सति गुणेऽयादेशे च सति
प्रीणयित्वेत्येव व्यवहार्यं रूपम् । ल्यपस्तु प्रसङ्ग एव नास्ति ।
३८. ऊदुपधाया गोह इति गुहेर्धातोः शपि गुणेन गोहरूपमुत्पद्यते
तत्रैवोपधाया ऊकार इत्यत्र कित्त्वधर्मवति ल्यपि गुणाप्रसङ्गे
ऊत्त्वस्याप्यप्रसङ्गः ।
३९. अभ्यूह्येत्यसाधु । उपसर्गाद्ध्रस्व ऊहतेः (७।४।२३) इत्यनेन
ह्रस्वो विधीयते ।१. श्लोकैरुपस्तुत्य ।