•. तुमुन्नधिकारो द्वितीयः ।
१. अयं ह्यकूपारमपि१ तर्तुमर्हति किमुत सरसीम्२ ।
२. पाठे नित्यमनवहितं तं शिष्यचेलं३ शालातो निष्क्रमितुं ब्रूहि ।
३. महानयं तेऽनध्यवसायः४ । किमित्यत्यन्तसुबोधमप्यर्थमध्यवसितुं
न सहसे ?
४. न हि किमपि कारणमन्तरा समुत्पत्तुं विनष्टुं वा शक्नोति ।
५. अयं चिरं गदीति२ सम्प्रति गदान्निर्गतोऽपि पदमेकमपि प्रक्रन्तुं
नालम् ।
६. तृणैर्गुणत्वमापन्नैः शक्या मत्ता दन्तिनोऽपि बद्धुम् ।
७. मुद्रासनाथं स्वमङ्गुलीयकं विचेतुमाज्ञापयति भृत्यान् राजा ।
८. अलं वयं परानास्कन्दितुं परास्कन्दं च दूरतो निरोद्धुम् ।
९. शक्यं मयाऽनेन दिग्धकेन व्यात्तदंष्ट्रोऽयं मृगाधिपो वधितुम् ।
१. तर्तुमित्यपशब्दः । त तरणप्लवनयोरुदात्तः । वृतो वेति
पाक्षिकेणेटो दीर्घत्वेन तरितुं तरीतुमिति रूपद्वयं साधु ।
२. तुमुण्ण्वुलौ क्रियायां क्रियार्थायामिति तुमुन्नपि समानकर्तृकत्व
एवेष्यत इति निर्णीतं वाग्व्यवहारादर्शे । तेन निष्क्रामेति
ब्रूहीत्येवं न्यसनीयम् ।
३. अध्यवपूर्वः षो अन्तकर्मणीति धातुः । तुमुनि आदेच उपदेशेऽशिती-
त्यात्वेऽध्यवसातुमित्येव साधु ।
४. मस्जिनशोर्झलीति नुमि विनष्टुमित्येव साधु
५. प्रक्रमितुमित्येव । क्रमः सेट्त्वात् ।
६. बन्ध बन्धने इति धातुः । तस्मात्तुमुनि नलोपाप्राप्तेर्निबन्धुमि-
त्येव युक्तम् ।
७. भिन्नकर्तृकत्वे तुमुन्दुर्लभ इति वैयाकरणकृतान्तः । अङ्गुलीयकं
विचिनुतेत्याज्ञापयति भृत्यान् राजेत्येवं न्यासः कार्यः ।
८. स्कन्दिर्गतिशोषणयो: अनिट् । तेनास्कन्तुमित्येव साधु ।
६. हनो लिहिः लुङि च वधादेशो विहितो नान्यत्र । तेन तुमुनि
हन्तुमित्येव । वधिः प्रकृत्यन्तरमप्यस्तोति केचित् । तन्मतेऽदोषः ।१. अकूपारः समुद्रः । २. तटाकम् । ३. गर्हितं शिष्यम् । कुत्सितानि कुत्सनै-
रिति समासः । ४. अनिश्चयः । ५. रुग्णः । गदो रोगोऽस्यास्तीति गदी।
इनिः ।