पृष्ठम्:शब्दापशब्दविवेकः.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९४ शन्दापशन्दविवेके


२४. तन्तवोऽपि संहत्य शक्ता नग्नमावरीतुम् । २५. येयं सम्प्रति प्रचरति भारते शिक्षा तां वित्त्वा१ऽपि बहवो नालं- कर्मीणा भवन्ति२ । २६. गीर्वाणवाणीं भूयः संचकासय्य संस्कृतसाहित्ये च लोकस्य कौतू- हलं संजागरय्य भारतं किमपि गुरुत्वमुपनेष्यामः । २७. इदं पुस्तकमचिरेण मुद्राप्य प्रकाश्य चात्मानं कृतिनं मंस्ये। २८. त्वयाऽत्र संकटे३ गृहं निर्मीय किं सुखमाशंस्यते ? २६. अविलुप्तब्रह्मचर्यो युवा चारुसर्वाङ्गीं युवतिमुदूह्य गृही भवेत् । ३०. यदि कश्चिदाम्नाये निष्ठित ऋग्वेदे विशद्य भाष्यं वितनुयात्, तदा लोकस्यास्य बहूपकुर्यात् । २४. सम्पूर्वो हन्ति: सकर्मकः । तेन तन्तव' इति संहननक्रियायाः कर्म । तस्मात् संहताः सन्त इति वक्तव्यम् । २५. विद्लु लाभे । अयं व्याघ्रभूत्यादिमते सेट्कः, भाष्यादिमतेऽनिट्कः तेन वित्त्वेति साधु । २६. चकासृ दीप्तौ । ततो रिणचि ल्यपि संचकास्येत्येव साधु । ल्यपि लघुपूर्वादिति णेरयादेशो न भवति । सकारस्य लघुपूर्वत्वाभा- वात् । संजागरथ्येति तु साधु। णिचि परतो जानोऽविचिण. इति गुणे रकारात्पूर्वो गकारोत्तरवर्त्यकारो लघुरस्तीति गरयादेशो निर्बाधः। २७. मुद्रां करोतीति णिचि मुद्रयतीतीष्यते । केचिदत्रापुकमिच्छन्ति यथा वर्धापयतीत्यत्र । असमासे मुद्रयित्वेत्येव साधु । मुद्रापयि- त्वेति चापुकि । उपसर्गे संमुद्र्येति वक्तव्यम् । २८. न ल्यपीतीत्त्वनिषेधान्निर्मायेत्येव साधु । २६. उत्पूर्वस्य बहतेर्ल्यपि उदुह्येति निर्दष्टं रूपम् । वचिस्वपियजा- दीनां कितीति सम्प्रसारणम् । तस्य प्रकृते दीर्घविधायकं शास्त्रं नास्ति । हलः (६।१२) इत्यनेन दीर्घत्वस्याप्राप्तेः । निरुतमित्यत्र यथा । निः शेषेण उत्तमित्यर्थः । ३०. शद्लृ शातन इति धातुरकर्मकः । अयं विशीर्णतायां वर्तते । शातनं तु विषयतया निर्दिष्टमिति दीक्षितः । तेन णिच्प्रयोक्तव्यः, विशाद्येति साधु । विशदशब्दाद्वा तत्करोतीति णिचि क्त्वायां१. विद्लृ लाभ इति धातुः । २. अलंकर्मीणः समर्थः । कर्मणे अलमिति विग्रहः । ३. सकटं सम्बाधः, संकुचिता प्रतोली ।