क्त्वाधिकारः १९३
१५. सूत्रकारं प्रणम्य शारदां च भगवतीमभिष्टूय वाक्यमुक्तावलिं
नाम पुस्तिकां तन्मः ।
१६. इदमौषधं शुचिनि वारिणि समुन्द्य१ गव्येन पयसा संमिश्र्य सि-
तया च संयुज्य पेयम् ।
१७. त्वया दुर्जनसंसर्गात्पृथग्भूयात्मश्रेयश्चिन्तनीयमित्यसकृत् त्वानु२
शास्मि ।
१८. इमं निकेतमवपात्यापरं च विरच्य सुखं सविभवं च तत्र वत्स्यामि
१९. अचिरादेव गृहात्परावर्त्य त्वदर्थे समीहिष्ये । जानेऽयमर्थो मयि
लम्बते३ ।
२०. इदं नारिकेलं पञ्चधाकृत्यामीभ्योऽर्भकेभ्यो देहि ।
२१. आलुलोचं त्वदुत्तरं परं मनसो मे सन्देहो दूरीभय परितोषो
नाभूत् ।
२२. विप्राय संकल्पितां गां निवेद्यान्यच्च देयं तत्सात्कृत्य परं तुष्यति
यजमानः।
२३. आकराः शुचयः सर्वे वर्जयित्वा सुराकरम् ।
१५. ह्रस्वस्य पिति कृति तुगिति तुकि उपसर्गात्सुनोतिसुवतिस्यति-
स्तौतीत्यादिना मूर्धन्यादेशेऽभिष्टुत्येत्येव साधु ।
१६. उन्दी क्लेदने । अनिदितां हल इति नलोपे समुद्येति वक्तव्यम् ।
१७. पृथक्शब्दस्य शास्त्रे गतिसंज्ञा न क्वापि पठितेति पृथग्
भूत्वेत्येव साधु ।
१८. रच प्रतियत्ने चुरादिरदन्तः। णावल्लोपस्य स्थानिवद्भावादुप-
धावृद्धावसत्यां ल्यपि लघुपूर्वादिति णेरयादेशे विरचय्येत्येव
साधु ।
१६. परावृत्येत्येव साधु । णिचा नार्थः ।
२०. नाधार्थप्रत्यये च्व्यर्थे इति क्त्वा । तृतीयाप्रभृतीन्यन्यतरस्याम्
इति वा समासः । तेन पञ्चधा कृत्वा पञ्चधाकृत्येत्युभयं साधु ।
२१. समानकर्तृकयोः पूर्वकाले इत्यनेन भिन्नकर्तृकत्वे क्त्वा दुर्लभः ।
न दूरीभूतः परितोषश्च नाभूदित्येवं वाक्यं प्रणेयम् ।
२२. सातेर्गतिसंज्ञा नेति सात्कृत्वेत्येव साधु ।
२३. वर्जनक्रियाकर्तृत्वमाकरेषु कथंचित्कल्पयित्वा समाधेयम् ।१. उन्दी क्लेदन इति धातुः । २. त्वाम् । ३-३. मदायत्त इत्यर्थः ।