१९२ शब्दापशब्दविवेके
७. लङ्कां निखिलेन परीक्ष्य जानकीं चादृश्य पर विषादमुपैति
पवनात्मजः ।
८. गुरुचरणाशुश्रूषित्वाऽपूर्वः कोपि सुखानुभवो जायते ।
९. गायत्रीं शतशो जप्त्वा पापेभ्यः पूयते नरः ।
१०. एकं केदारं लवित्वाऽपरं लुनन्ति कृषका: सस्यार्थिनः ।
११. सौम्य बहिर्गत्य लक्षय का वेलेति । अहमस्मि प्रतिष्ठासुः ।
१२. लोमहर्षणीमिमां वार्तां निशम्य तस्य हृदि क्रोधानल: समदोपि ।१
१३. लक्ष्म्यां रङ्क्त्वा न सहसा विरज्यते । ततो वा विरज्य सर-
स्वत्यां रज्यते ।
१४. अग्निं प्रज्वाल्य शीतापनोदमिच्छन्ति शीतार्ता दरिद्राः ।
७. नञ्समासे क्त्वो ल्यब् न । अनञ्पूर्वे इत्युक्तेः । तेनादृष्ट्वेत्येव
साधु ।
८. अत्र जनिक्रियायाः सुखानुभवः कर्ता । शूभूषित्वेत्यस्य च
देवदत्तादिः शिष्यः । तेन भिन्नकर्तृकत्वे क्त्वा न प्राप्नोति । तेन
स्थितस्य देवदत्तस्येत्याद्यध्याहार्यम् । बहुलं चैवं प्रयुञ्जते कवय
इति तत्र तत्रायमेव समधिर्वेदनीयः ।
९. जप जल्प व्यक्तायां वाचि । जप मानसे चेति धातुपाठः । जपिरयं
सेट् तेन जपित्वेत्येव साधु ।
१० लूञ् छेदने क्रयादिः । अयं सेट् । श्र्युक: कितीतीण्निषेधात्
लूत्वेत्येव साधु ।
११. बहिषो गतिसंज्ञा नेति बहिर्गत्वेत्येव साधु ।
१२. अत्रापि भिन्नंकर्तृकत्वे क्त्वा पूर्ववत् समाधेयः । स्थितस्येत्यध्या-
हार्यम् । एवं निशमनस्थाने समानकर्तृके भवतः ।
१३. जान्तनशां विभाषेति क्त्वि नलोपो वेति रङ्क्त्वा, रक्त्वेति
रूपद्वयम् । सकर्मकोऽयं धातुः । कर्मकर्तरि प्रयोग इति चेन्मैवम् ।
यगात्मनेपदचिण् चिण्वद्भावाःप्रयोजनमिति कर्मवत्त्वे प्रयोजन-
परिगणनात् क्त्वायां कर्मवद्भावो न भवतीत्युक्तं भवति ।
रक्तो भूत्वेति वक्तव्यम् ।
१४. ज्वलह्वलह्मलनमामनुपसर्गाद्वेति घटादित्वात् सोपसर्गस्य
ज्वलेर्नित्ये मित्त्वे मितां ह्रस्व इति ह्रस्वत्वे प्रज्वलय्येति साधु ।१. समदीपिष्ट । कर्तरि वा चिण् ।