अथ कृत्सु विवेच्यानि । तत्र क्त्वाधिकारः प्रथमः ।
१, तातं क्षमा प्रार्थयित्वा लघयति१ स्वमागः२ कुमारः ।
२ दारुण एष उदन्तो दहति मेऽवस्कन्द्य हृदयम् ।
३. प्रेष्याननन्तरकरणीयमनुशास्य श्वोऽहमितः प्रस्थाताहे ।
४. तूष्णीम्भूय गुरोरनुशासनं निशम्यताम् ।
५. सूत्रकारं नमस्कृत्वा वाक्यकारं च निभृतम्३ । शब्दापशब्दयोरेष
विवेकः प्रवितन्यते ॥
६. अत्रैतां निशां परिणाम्य श्वोभूत इत: प्रस्थास्यामहे ।
१. समासेऽनञ्पूर्वे क्त्वो ल्यप् इति प्रार्थ्येत्येव साधु ।
२. स्कन्दिर्गतिशोषणयोरिति धातुरनिदित् । तेन ल्यपि स्थानिवद्-
भावात् कित्त्वे नलोपः स्यादेव । क्त्वायां तु नलोप: प्राप्तोपि
क्त्वि स्कन्दिस्यन्दोरिति सूत्रे क्त्वाग्रहणान्न भवति । तेनावस्कद्ये-
त्येव साधु ।
३. ल्यपि शास इदङ्हलोरित्युपधाया इकारादेशे शासिवसिघसीना-
मिति च षत्वेऽनुशिष्येति साधु ।
४. तूष्णीमि भुवः (३।४।६३) इति क्त्वाणमुलौ विधत्ते ।
तृतीयाप्रभृतीन्यन्यतरस्यामिति वा समास: । तेन तूष्णींभूय,
तूष्णीं भूत्वेत्युभयं साधु । (तूष्णींभावमिति च)।
५. साक्षात्प्रभृतीनि चेति नमः शब्दस्य वा गतिसंज्ञा । तेन गति-
समासे नमस्कृत्येति रूपम् । असमासे च नमस्कृत्वेति न कश्चि-
द्दोषः ।
६. अनुपसृष्टस्य नमेर्विकल्पेन मित्त्वं सोपसर्गस्य तु नित्यम् इति
ण्यन्तात् परिणमेर्ल्यपि लघुपूर्वादिति णेरयादेशे परिणमय्ये-
त्येव साधु ।१. लघू करोति । २. आगोऽपराधः । आग इति सान्तं क्लीबम् । ३. प्रश्रितम्
सादरम्, नम्रम् ।